This page has not been fully proofread.

सरः] उन्मीलितनिमीलितचक्षुषो ग्राह्याग्रहणे क्षणभङ्गस्य साधनतानिरासः 483
 
तत्वमुक्ताकलापः
 
न हि गलति समा सन्ततिस्त्वन्मतेऽपि ॥ ४० ॥
 
सर्वार्थसिद्धिः
 
अयं भावः - छादनदशायां पूर्वगृहीतस्य स्वरूपयोग्यत्वं स्थितं
नष्टं वा ? आधे कथं न गृह्येत ? प्राप्तेर (नपेक्षणात् ) प्रयो-
जकत्वात् । द्वितीये नाशकं न दृष्टम् । छादकमेव स्वरूप-
योग्यतानाशकमिति चेन्न ; अव्यवहितदेशस्थैरप्यग्रह (ण)
प्रसङ्गात् । यं प्रति न व्यवधिस्तं प्रति योग्यता नष्टेति
चेत्; छादकापगमेऽप्यग्रहप्रसङ्गात् । तदपगमात्पुनरुत्पद्यत
इति चेत्; हन्त; अदृश्यमानानन्तोत्पत्तिनाशकल्पनात् प्रति-
पुरुषनियतानन्तयोग्यताभेदकल्पनाच्च वरं प्रदीपप्रभान्यायेन
प्राप्तिविघातकतया छादकसाफल्यस्वीकारः । परपक्षेणापि प्रसङ्ग-
स्थैर्यमाह — समेति । अपिरन्वारोहद्योतकः । क्षणभङ्गपक्षेऽपि
आनन्ददायिनी
 
-
 
(स्य ) भावः सत्त्वं व्यवहितस्थलेऽपीत्यर्थः । प्रतिज्ञामात्रेण नार्थसिद्धि-
रित्यत आह—अयं भाव इति । अव्यवहितदेशस्थैरिति—छादकेन
योग्यताया नाशादिति भावः । हन्तेति – छादकस्य किञ्चिद्विघातकतया
प्रतिबन्धकत्वस्य कल्पने गौरवपरिहारेण लघुपक्ष एवाश्रयितुं
युक्त इति भावः । क्षणभङ्गपक्षेऽपीदं समानम् ; छादकान्त-
र्हितस्य क्षणस्य पूर्वगृहीतक्षणापेक्षया भिन्नत्वेऽपि तस्यायोग्यत्वे
समीपस्थैरन्तरितैरपि न गृह्येत ; गृह्येत चेत् योग्यत्वादन्तरितैरपि गृह्येत ।
यदि प्रतिपुरुषं योग्यताभेदः कल्प्यते तदा प्राप्तिर्वा लाघवात्कल्प्यता-
मिति ध्येयम् । परपक्षेणेति — क्षणिकपक्षेणापीत्यर्थः अन्वारोहोऽ-
 
31*