This page has not been fully proofread.

482
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
स्थैर्ये तद्योग्यभावो
 
तत्वमुक्ताकलापः
 
सर्वार्थसिद्धिः
 
च्छादकं प्रभाप्रतिघातार्थं दृष्टम् । उन्मीलितनिमीलितच-
क्षुषः पिठरकावृतदीपप्रभान्यायेन पूर्वप्रसृतनयनप्रभाया विना-
शादतिक्रमाद्वा ग्राह्यग्रहणाभावः । अत्र गृहीतच्छन्नमपि
गृह्येति प्रसङ्गारूढम् । तदा सममिति पूर्वमिवेत्यर्थः ।
तच्च क्षणभङ्गेन योग्यायोग्यभेदकल्पनया परिजिहीर्षतः सर्व-
लोकप्रसिद्ध्यनुसारिणा स्वमतेनोत्तरमाह—स्थैर्ये इति ।
आनन्ददायिनी
 
1
 
विषयप्राप्तयर्थमिन्द्रियवृत्तेर्विषयदेशव्यापने सति निमीलिताक्षस्यापि विषय-
ग्रहणं स्यात् निर्गताया वृत्तेस्सत्त्वाद्विषयप्राप्तिसत्त्वादित्यत्राह - उन्मीलित-
निमीलितेति । पिठरकं–वैतसादिपात्रविशेषः । अति(प्रति)क्रमाद्वेतिविष-
यदेशातिक्रमणेन तदा विषयप्राप्तयभावादित्यर्थः । (इदमभ्युपगम्योक्तम्) ।
यद्वा-प्राप्तिपक्षे गृहीतच्छन्नमपि गृह्येतेति प्रसङ्गारूढं - प्रसङ्गेनापादितमपि
तदा समं–छादकनैष्फल्यपक्षेऽपि समं - अम्बुकाचादिस्थलवदिति। प्रकारा-
न्तरेणाप्यर्थमाह-गृहीतच्छन्नमपीति । तथाच मूलस्यायमर्थः – नो चेत्
काचादीनामिन्द्रियप्रवेशनयोग्यसंस्थानवत्त्वाभावे तद्व्यवहितग्रहणवत् पिठ-
रादिव्यवहितमपि योग्यं निखिलं गृह्येत छादकानामप्रतिबन्धकत्वादिति
सममित्यर्थः । ननु गृहीतस्य पिठर (स्य) व्यवधानं नास्त्येव तस्य
क्षणिकतया नाशात् ; तदनन्तरोत्पन्नं च पूर्व (पूर्वपूर्व) स्माद्भिन्नमिति
तदयोग्यत्वादेव न गृह्यत इत्यत्राह - तच्च क्षणभङ्गेनेति । तच्च उक्तप्रसञ्ज-
नमित्यर्थः ! तद्योग्यभाव इति मूलम् । तद्योग्यभावः - इन्द्रिय योग्य-