2025-01-21 07:44:18 by ambuda-bot
This page has not been fully proofread.
सरः]
छादकाभावस्य स्वतः कारणत्वनिरासः
481
तत्वमुक्ताकलापः
नो चेत् गृह्येत योग्यं सममिह निखिलं निष्फले
छादकादौ
सर्वार्थसिद्धिः
सर्वत्र स्वरूप योग्यत्वायोग्यत्वाभ्यामेव ग्रहणाग्रहणे । तत्र छाद-
कतदभावौ निरर्थकौ' इति वदतां बाधकं स्वोक्तानुमानस्य विपक्ष
वाधकं अयस्कान्तनिदर्शनेऽपि छादकनैष्फल्येऽतिप्रसङ्गमभिप्रे-
त्याह - नो चेदिति । इह योग्यं निखिलं सर्वस्मिन् जगति
स्वरूपयोग्यं सर्वं समं गृह्येत, अविशेषाद्युगपदेवेत्यर्थः । आदि-
शब्देन अतिद्रत्वकालविप्रकर्षादिकं दृष्टान्तय (ततया गृडा ) ति ।
छादकाभावः स्वरूपतस्सहकारी न तु प्राप्तिविरोधिप्रत्यनी -
कतयेति चेन्न ; आलोकादिप्राप्तिविरोधिच्छत्रादिन्यायस्यात्रान-
पायात् । न च यत्रक्वचिच्छादकाभावस्सहकुर्यात् अतिप्रसङ्गात् ;
किं तु नयनार्जवदेशे । अयं च (अयं नियमः) प्राप्तिविरोधिनि -
वृत्तिरूपतयेति युक्तमुत्पश्य रूपग्रहणसामग्रयामेव प्रदीपादि-
आनन्ददायिनी
योजक इति शङ्कते --- सर्वत्रेति । दृष्टान्ततयेति —यथा ( दूरत्व) कालवि-
प्रकर्षादेस्सन्निकर्षप्रतिबन्धकत्वं तद्विरहस्य तदापादकत्वं च नास्ति ( किन्तु )
अयोग्यत्वमात्रेण ग्रहणाग्रहणे इ ( ग्रहणमि ) ति तयोर्निष्फलत्वं तथेत्यर्थः ।
छादकाभाव इति – व्यवधायकाभाव (इत्यर्थः) । प्राप्तिविरोधिरूपप्राप्तय-
भावप्रत्यनीकतया प्राप्तिसंपादकतया न प्रयोजकं किं तु स्वयं कारण-
मित्यर्थः । आलोकादीति — अन्यत्र क्लृप्ता (दृष्टा) कारकल्पनस्योचित -
त्वादिति भावः । तन्नयायमेवोपपादयति - नच यत्र क्वचिदिति । ननु
-
SARVARTHA.
-
31