This page has not been fully proofread.

480
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
सर्वार्थसिद्धिः
 
नदीप्तं शिलाविशेषादि । यथावत्प्रसरमत्यन्तनिरोधं च परि-
हर्तुं विरल पटनिदर्शनम् । अत एव हि तत्राविशदप्रतिभासः ।
सरन्ध्रत्वे स्फटिकादिषु सलिलगलनादिप्रसक्तिस्स्यादिति चेन्न ;
आलोकप्रवेशवत्सु सर्वेषु सलिलप्रवेशस्य त्वया दुर्वचत्वात् ।
अच्छिद्रपरुवकसम्पुटस्थगितकर्पूरकस्तूरिकादिगन्धनिस्सरणन्या -
याच्च । द्रव्यविशेषप्रवेशानुगुणसन्निवेशवत्त्वं काचादेरङ्गीका-
र्यम् । अप्राप्यग्रहणेऽपि हि कुड्यादिव्यवहितं न ग्राह्यम्,
काचादिव्यवहितं तु ग्राह्यमिति वस्तुस्वभाववैचित्रयं त्वयाऽपि
स्वीकृतम् ।
 
नीरन्धेऽप्यम्बुकाचादौ प्रभादेः प्रवेशनम् ।
वस्तुस्वभाववैचित्रयादिति केचित्प्रचक्षते ॥
 
आनन्ददायिनी
 
यथावदिति । परु ( पुरु) वर्क - - अत्यन्तस्वच्छद्रव्यविशेषः । (करण्ड इति
केचित् । ) निर्मितकरण्डः । नन्वंवे स्वभावविशेषकल्पनं गौरवान्निरस्त -
मित्यत्राह -- अप्राप्यग्रहणेऽपीति । केचित्तु दृक्प्रभादेरेवाम्बुकाचादिप्रवे-
(प्रकाशनसामर्थ्यं कल्प्यत इत्याहुरित्याह -- नीरन्ध्रेऽपीति । ननु व्यव-
धानतदभावाभ्यां ग्रहणाग्रहणदर्शनात् प्रा (तत्प्रा) तयप्राप्तयोस्तत्प्रयोज्य-
(क) त्वादिन्द्रियाणां प्राप्त ( प्राप्य) ग्राहकत्वं सिध्यतीत्यनुकूलतर्कोऽनुपपन्नः
ग्रहणाग्रहणयोः ग्राह्ययोग्यत्वायोग्यत्वप्रयुक्तत्वात् व्यवधानाव्यवधानयोर-
प्रयोजकत्वम् छा ( तच्छा) दकं च न प्राप्तिविघटकं; तदभावश्च न तत्प्र-