2025-01-21 07:44:05 by ambuda-bot
This page has not been fully proofread.
सरः ]
इन्द्रियगमनस्यप्रतिबन्द्या साधनं बाधशङ्कानिरासश्च
479
तत्वमुक्ताकलापः
प्राप्तिरुक्तप्राकारा; वृत्तिं दृष्टेर्निरुन्धे विरलपटनया-
दम्बुकाचादिरच्छः ।
: 1
सर्वार्थसिद्धिः
भावस्त्वनुपलम्भमात्रेण सिध्यतीति चेन्न ; योग्यानुपलब्ध-
रभावात् । अतीन्द्रियस्य हि प्राप्तिरपि तथैव । अतो नात्र
बाधशङ्का । ननु दूरस्थत्वाद्विषयेन्द्रिययोः प्राप्तिर्वाधितेत्यत्राह -
प्राप्तिरिति । वृत्तिद्वारेति शेषः । उक्तप्रकारेति — पुनरनुवचनं
वाद्यन्तरोक्तप्राप्तिप्रकारनिरासार्थम् । अथापि कचिद्व्यवहितग्र-
हणदर्शनात् प्रमाणतस्तर्कतश्च बाधस्स्यादित्यत्राह — वृत्तिमिति ।
अच्छः- आलोकाद्यनुप्रवेशानुगुणसन्निवेशवानित्यर्थः । दृश्यते
ह्यनाविलसलिलमूलप्रविष्टस्सूर्यालोकः तत्रत्यं च तत्प्रतिफल -
आनन्ददायिनी
भावः । योग्येति–नानुपलम्भमात्रं बाधकमिति भावः । योग्यानुपलब्धि-
मेवाह - अतीन्द्रियस्येति । अतीन्द्रियेन्द्रियप्राप्तेरतीन्द्रियत्वान्न योग्यानु-
पलब्धिरित्यर्थः । नन्विति — विप्रकृष्टयोः प्राप्तयसंभवादिति भावः ।
वाद्यन्तरेति—सांख्याद्युक्तमित्यर्थः । तन्निरसनमनन्तरमेव दर्शयिष्यते ।
ननु प्राप्तयभावेऽपि काचादिव्यवहितस्थले प्रकाशदर्शनात् प्राप्यप्रकाशता-
नुमानस्य व्यभिचारः ; प्राप्यप्रकाशत्वे काचादिव्यवहितस्य प्रकाशो न
स्यादिति तर्कबाधश्चेति शङ्कामनूद्य परिहरति-- अथापीति । संनिवेशः -
स्थानम् । ननु पटदृष्टान्तत्वे तद्वद्दृश्यमानरन्धता स्यादित्यत्राह-
-