2025-01-21 07:44:11 by ambuda-bot
This page has not been fully proofread.
478
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
सर्वार्थसिद्धिः
वृत्तेस्तादृशवेगातिशयस्याविस्मयनीयतया पद्मपत्रशतवेधनीत्या
यौगपद्याभिमानोपपत्तेः । ननु सिद्धे गमने यौगपद्याभिमान -
क्लृप्तिः ; नात्र तत्सिध्यतीति चेन्न ; स्वाभ्युपगतसाम्यात् ।
बुद्धिसंततेश्शरीरान्तरगमनं दीपालोकादिगमनं च दृष्टं कल्प्यं
वा ? नाद्यः ; त्वयाऽप्यनभ्युपगमात् । द्वितीये तु तथेहापि
किं न स्यात् ? न देहान्तरादौ गतिः प्राप्तिर्वा ; किं तु
तत्र तत्र देशकालनैरन्तर्येणोत्पत्तिमात्रमिति चेत्; तथेहापि
त्वया कल्प्यताम् ; अविशेषात् । ननु प्राप्तिः कल्प्या; तद-
आनन्ददायिनी
(तद्दुर्ग्रहैक) (तदेकग्रहैक) त्वव्यवहारयोरुपपत्तेरिति भावः । स्वाभ्युपग-
तेति–→क्षणिकत्ववादि(भिः ) ना निरन्तरोत्पद्यमानशरीरक्षणेषु बुद्धिक्षणा -
नामपि तत्तच्छरीरकाल एवोत्पद्यमानानां तत्तदुत्पत्तिकाल एव संबन्धा-
ङ्गीकारादित्यर्थः । ननु तत्र प्रमाणसत्त्वादङ्गीकार
प्रमाणसत्त्वादङ्गीकार इत्यत्राह -
बुद्धिसंततेरिति । त्वयाऽपीति । प्रत्यक्षरूपगमनाभ्युपगमादित्यर्थः ।
द्वितीये त्विति । इन्द्रियेष्वपि शीघ्रसंबन्धकल्पनासंभवादित्यर्थः । प्रति-
बन्दि (बन्दी:) परिहरति न देहान्तरादाविति । न बुद्धिसंततेदपा -
लोकादेश्च देशान्तरे उत्पन्नस्य तत्तद्देश (देह) तत्तद्विषयप्राप्तिः, अपितु
तद्देश एवैकस्मिन् काले उत्पत्तिरित्यर्थः । तथेति - चक्षुरादिवृत्तेरपि
तावद्दूव्यापिन्या नैरन्तर्येणोत्पत्तिरि(रस्त्वित्यर्थः । ननु बुद्धिसंतानादि-
प्रतिबन्दिर(रधिका)युक्ता; तयोस्स्वप्रकाशप्रत्यक्षसिद्धत्वात्, चक्षुरादीनाम-
तीन्द्रियतया तद्वृत्तेः तद्व्यापार (तत्प्राप्ति ) रूपसंयोगस्य च प्रथक्षत्वायोगा-
दिति वैषम्यं शङ्कते — ननु प्रा (व्या ) प्तिरिति । तथाच अनुपलम्भबाध इति