This page has not been fully proofread.

सरः ]
 
इन्द्रियाणां प्राप्यकारित्वानुमानदूषणपरिहारः
 
477
 
सर्वार्थसिद्धिः
 
नात्र कर्मेन्द्रियैरनैकान्त्यम् ; यथास्वं व्यापारेण स्पृष्टेग्राहिशब्देन
विवक्षितत्वात् । तस्य च सर्वत्र प्राप्तविषयत्वात् । न च
मनसा ; तस्यापि बाह्येन्द्रियद्वारा वहिर्विषयप्राप्तेः । यद्वा – बाह्य-
ज्ञानेन्द्रियत्वादिति मनः कर्मेन्द्रियव्यवच्छेदः । ननून्मिषितमात्र
चक्षुश्चन्द्रं गमयति ; न चैकस्मिन् क्षणे तावान् देशो वृच्या लङ्घ-
यितुं क्षमः ; क्रमे तु प्रतिपरमाण्ववच्छेदं विलम्ब्य गमनात्
प्रतीतिरपि विलम्बेत; दूरासन्नग्रहण कालतारतम्यं च स्यात् ? मैवम्;
उदयत्येव सवितरि सकलदिग्व्यापिन्यां प्रभायामिव इन्द्रिय-
 
आनन्ददायिनी
 
जनकत्वाभावाद्व्यभिचार इत्याशङ्कय परिहरति — नात्र कर्मेन्द्रियैरिति ।
ग्राहीत्यत्र क्रियासाधारण्येन व्यापारस्पर्शस्य विवक्षितस्य तेष्वपि सत्त्वात्
न तैर्व्यभिचार इति भावः । तस्येति — ग्रहणरूपादानक्रियादेः कर्मे-
न्द्रियादिप्राप्तविषयत्वादित्यर्थः । मनसि व्यभिचारं परिहरति--नच
मनसीति । ननु स्वव्यापार (रातिरिक्त) द्वाराऽपि प्राप्तग्राहित्वेऽतिप्रसङ्गः
व्यवहितस्यापि(स्याप्येवं)संबन्धात् इत्यम्वरसादाह -- यद्वेति । परानु-
मानानुग्राहकं स्वानुमानप्रतिकूलं प्रागुक्ततर्कं क्रमयौगपद्यविकल्पानुपपत्ति-
रूपमाशङ्कते – ननून्मिषितमात्रमिति । इष्टापत्तिं परिहरति-दूरासन्नेति ।
तारतम्यं गृह्येत चेदित्यर्थः । तारतम्यमिति - प्रत्ययानुकरणादर्थलाक्षणिकात्
व्यञ् । वेगातिशयेन क्रमसंबन्धेन क्रमेण ग्रहणेऽपि शतपत्रशतं मया
भिन्नमिति क्रियादिसंयोगात् न शतयौगपद्याभिमानवत् ज्ञाने योग द्या -
भिमान इत्यर्थः । नचैवमनेक (नेन) ज्ञानोत्पत्तिः ; इष्टापत्तेः । न च
ज्ञानभेद (दा) ग्रहप्रसङ्गः ; भ्रमरूपा ( भ्रम इवा) संसर्गाग्रहवादिनः तदग्रहैक-