This page has not been fully proofread.

476
 
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य,
 
तत्वमुक्ताकलापः
 
प्राप्यग्राहीन्द्रियत्वाद्विमतमितरवत् ;
सर्वार्थसिद्धिः
 
स्थविषया प्राप्तिर्न भवतीत्यतो यपग्राहकं यच्छन्द ग्राहक-
मिन्द्रियं तदप्राप्यग्राहि यथा मन इति ' तत्र तावत् प्रत्यनुमान-
माह — प्राप्येति । ननु गृह्यमाणस्य वर्तमानक्षणस्य पूर्व-
क्षणवर्तीन्द्रियसंबन्धायोगात् इन्द्रियान्तराणामप्यसंबन्धग्राहक-
तया साध्यविकलो दृष्टान्तः ? मैवम् ; क्षणभङ्गकुसृतेः प्रागेव
निरासात् ।
 
अतिप्रसङ्गोऽसंबन्धग्रहणे स्यात्समं त्विदम् ।
संबन्धग्रहणेऽपीति न सत् योग्यान्वितग्रहात् ॥
गृहीतस्येष्यते कश्चित्संबन्धो व्यभिचारतः ।
न संबन्धस्य सर्वस्य ग्रहणं व्यभिचारतः ॥
आनन्ददायिनी
 
तर्कबाधश्चेत्याह -- अतिप्रसङ्ग इति । ननु स्वकीयानुमानेऽपि संबद्धानां
परमाण्वादीनां ग्रहणं स्यादित्यतिप्रसङ्गबाधस्सम इति शङ्कते --
समं त्विदमिति । परमाण्वादीनामिन्द्रियसंबन्धे सत्यपि अयोग्यत्वान्नाति -
प्रसङ्ग इति वदति--न सत् योग्यान्वितेति । नन्वस्मिन् पक्षे योग्यत्व-
विशेषणे गौरवमित्यत्राह – गृहतिस्येति । अन्वयव्यतिरेकाभ्यां
तत्प्रवेशस्य प्रामाणिकत्वात् न गौरवं दोष इत्यर्थः । गृहीतस्य
पदार्थस्य अव्यभिचारेण ग्राहकसंबन्धः कल्प्यते ; तेन सर्वसंबन्ध(संबद्धस्य
सर्व ) स्यापि ग्रहणं व्यभिचारात् ; तथा च योग्यविषयसंबन्धो ग्राहक इति
कल्पनेन गौरवं दोषायेति भावः । ननु कर्मेन्द्रियाणां ज्ञानरूपग्रहण-