2025-01-21 07:43:51 by ambuda-bot
This page has not been fully proofread.
सरः]
मनष्षष्ठत्वेक्तिभावः परोक्तिनिरासः इन्द्रियप्राप्यग्राहित्वानुवादश्च 475
सर्वार्थसिद्धिः
यदुक्तम्–' वृत्त्याऽक्ष्यादेर्देवीयः प्रमितिजनकता' इति, तत्र
बाह्यैरेवमुच्यते—' वृत्तिप्रसरणे क्रमयौगपद्यविकल्पायोगात् दूर-
आनन्ददायिनी
तमपि मानाभावान्निरस्तम् । तानीन्द्रियाणि प्रतिनियतानि, आमोक्षं
आसृष्टेः परकायप्रवेशेऽपि तैस्सह प्रविशति ; मृतशरीरप्रवेशे तथा दर्श-
नात् ' गृहीत्वैतानि संयाति' इति स्मृतेरन्यदीयकरणस्यान्योपभोगकरण-
त्वायोगाच्च जीवच्छरीरेऽपि तैस्सह प्रवेश इति । अन्ये तु—प्रकृष्टादृष्ट-
वशादन्यदीयभोगायतनस्यान्यदयिभोगायतनत्ववदन्योपकरणत्वं संभव-
तीति जीवच्छरीरे तैर्विनाऽपि प्रवेश इति वदन्ति । इन्द्रियेषु
प्राकृताप्राकृतविभागान् केचिदाचार्या आहुः । अपरे तु — नित्यमुक्ता-
दिज्ञानस्य करणाधीनत्वाभावात् प्रयोजनशून्याऽप्राकृतेन्द्रियक्कप्तिः ।
' कप्यास पुण्डरीकमेवमक्षिणी ' इत्यादिव्यपदेशस्तु संस्थानमात्राभिप्राय
इत्याहुः ॥ ३९ ॥
इन्द्रियाणां सूक्ष्मत्वम्
आक्षेपसंगत्याऽऽाह-यदुक्तमित्यादिना । यदिन्द्रियं तदप्राप्यप्रका-
शकं यथा मनः रूपादिग्राहकं चक्षुरादिकमपीन्द्रियमित्यनुमानाभिप्राये-
णानुग्राहकं तर्कमाह --- वृत्तिप्रसरणे इति । ननु दूरसन्निकृष्टार्थैरिन्द्रियं
क्रमेण संबध्यते युगपद्वा ? नाद्यः ? परमाणुदेशक्रमेण बधे
ग्रहणप्रसङ्गात् दूरसन्निकृष्टार्थयोर्युगपद्ग्रहणं न स्यात् । न द्वितीयः ;
अयोगात् इति, क्रमयौगपद्यविकल्पेन संबन्धस्यायोगात् वृत्तिनिर्गमन-
कल्पनमयुक्तमित्याह—वृत्तिप्रसरण इति । प्रत्यनुमानं प्रतिपक्षः ;
चक्षुरिन्द्रियं प्राप्यकारि बाह्येन्द्रियत्वात् त्वगिन्द्रियवदित्यर्थः । परानुमाने