2025-01-21 07:43:51 by ambuda-bot
This page has not been fully proofread.
474
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[ जडद्रव्य
' मनष्पष्ठानि ' इत्यादेश्व न्यूनसङ्ख्याव्यवच्छेदमात्रेणाप्युपपत्तेः
कर्मेन्द्रियाणां प्रतिशरीरमुत्पत्तिविनाशं व्यष्टिसमष्टिभावराहित्यं
च वदन्तः प्रत्युक्ताः ॥ ३९ ॥
॥ इन्द्रियाणां सूक्ष्मत्वम् ॥
आनन्ददायिनी
--
इत्थम् --- परमतवत् प्रतिशरीरमुत्पत्तिविनाशाभ्युपगमेऽपि तेषामिन्द्रियत्वं
सिध्यतीति 'हस्तादयस्तु स्थितेऽतो नैवम्' इति सूत्रस्य योजनान्तराभि-
प्रायेणैवमुक्तम् । अत एकादशेन्द्रियाण्यपि शरीरान्तरेष्वप्यनुवर्तन्त इति
भाष्यकाराभिप्रायं प्रतीम इति । अन्ये तु उत्क्रमणशब्दस्य क्रियया
पूर्वदेशविभागपूर्वकदेशान्तरसंयोगपरस्य विभुत्वपक्षे देशान्तरसंयोगमात्रे
संकोचो वाच्यः ; तत्र मानं नास्तीत्यर्थः । नचानन्त्यश्रुतिरेव मानम् ;
आनन्त्यश्रुतेः कालपरिच्छेदाभावस्य उत्पत्तिश्रुतिबाधेन देशपरिच्छेदा-
भावपरतया संकोचस्यावश्यकत्वात् अनन्तशब्दस्य बहुव्रीहिसमासत्वेन
लक्षणयान्यपरत्वस्य स्वतः प्राप्तत्वात् । वाक्यत्वाच्च उत्क्रान्ति श्रुतेर्जघन्य-
त्वात् न तत्र तद्विरुद्धार्थप्रतिपादनसामर्थ्यमिति न संकोच इत्याहुः ।
मनष्षष्ठानीति– इन्द्रियाणामेव गतागतश्रवणात् कर्मेन्द्रियाणामि-
न्द्रियत्वाभावशङ्केत्याहुः । अन्ये तु उत्क्रान्तिप्रकरणे ' मनष्ठानि ' इति
ज्ञानेन्द्रियाणामेवोक्तेः कर्मेन्द्रियेषु प्रतिशरीरमुत्पत्त्यादिशङ्कां परिहरति-
मनष्षष्ठानीति। व्यष्टिसमष्टीति – तत्वोत्पत्तिकाल एव सर्वेषां संघीभूया -
वस्थितिर्व्यष्टिः । तत्तच्छरीरेषु पृथगवस्थानं समष्टिः । इदमुपलक्षणम् -
सौगतकल्पितं स्त्रीन्द्रियपुरुषेन्द्रियादिवि (भ) भाजनं मानाभावान्निरस्तम् ।
अन्यैर्मनस्तैजसत्वं राजसाहङ्कारजन्यत्वं कर्मेन्द्रियत्वमित्यादि क (ज) ल्पित-