2025-01-21 07:43:54 by ambuda-bot
This page has not been fully proofread.
सरः]
वृत्तिस्वरूपं इन्द्रियानन्त्यश्रुतिनिर्वाहः आकरसम्मतिश्च
47.3
आनन्ददायिनी
'
जीवन स(तेनैव स)ह गमनम् ; तथाच कथं न संकोचः ? अन्यथा सारे
' हस्तादयोऽपीन्द्रियाणि जीवे देहान्तरव (न्तराव) (न्तर) स्थिते उपकारक-
त्वाविशेषात्' इति वचनं विरुध्येत; देहान्तरवस्थितस्य जीवस्योपकारकाणि
न तु सहागतानीति प्रतीतेः । तथा भाष्येऽपि न सप्तैवेन्द्रियाणि ; अपि
त्वेकादश; हस्तादीनामपि शरीरेऽवस्थिते जीवे तस्य भोगोपकरणत्वा-
दिति ' अत्रापि सहागमानाप्रतीतेर्विरोधः । तथा दीपे व्यक्तमेवोक्तम्---
: श्रोत्रादीनि जीवेन शरीरान्तरगमनेऽपि गच्छन्ति ; वाग्घस्तादीनि
कर्मेन्द्रियाणि तु स्थिते शरीरे तेनैव सहोत्पत्तिविनाशयोगीन्युपकारकाणि '
इति ; तथा च दपिर्विरोधश्चेति चेत्; अत्राहुः -- नैव विरोधः ' प्राण-
गतेश्च' इति सूत्रे ' सर्वे प्राणा अनूत्क्रामन्ति' इत्युदाहृतत्वात् । 'सप्त-
गतेः' इत्यधिकरणे च ' यानि त्वितराणि विषयाणां ग्राहकत्वेन
तेषामौपचारिकः प्राणत्वव्यपदेश:' इति पूर्वपक्षं कृत्वा 'हस्तादयस्तु
स्थितेऽतो नैवम्' इति तेषामपि प्राणत्वसमर्थनात् प्राणत्वमिन्द्रियत्वं
' प्राणगतेश्व' इत्यस्यैव समनन्तरे ' अग्नयादिगतिश्रुतेरिति चेन्न
भाक्तत्वात्' इति सूत्रे भाष्यम् – ' यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति
वाचं प्राणः चक्षुरादित्यं इत्यादिना प्राणानां जीवमरणकाले अग्नया-
दिष्वप्ययश्रवणात् न तेषां जीवेन सह गमनमिति गतिश्रुतिरन्यथा नेयेति
चेन्न ; भाक्तत्वादग्नयादिष्वप्ययश्रवणस्य' इत्यादिकम् । अतः कर्मेन्द्रि-
यस्य वाचोऽत्र गतिरभ्युपेतेति तदन्येषामपि सममेव । तथा सारेऽप्यु-
क्तम् —' सप्तानां गतिश्रवणं विशेषणं च तेषां प्राधान्यात्' इति ।
दीपेऽपि 'सप्तानामेव गतिश्रवणं योगकाले विशेषणं च ज्ञानेन्द्रियाणां
मनसः तत्प्रवृत्तिरूपबुद्धेश्च प्राधान्यात् इत्यादि । न च आहङ्कारिकेन्द्रिय-
वादिनः प्रतिशरीरमिन्द्रियोत्पत्तिलयावुपपद्येते; पाण्याद्यधिष्ठानानि त्व-
निन्द्रियाणीति तदुत्पत्तिलयोपपत्तिः । कथं तर्हि श्रोत्रादीनीत्यादेर्निर्वाहः ?