This page has not been fully proofread.

472
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
तत्वमुक्ताकलापः
 
श्रुतिमितमपि चानन्त्यमेषां स्वकार्यैः ॥ ३९ ॥
 
सर्वार्थसिद्धिः
 
नयनरश्मिगतितत्प्रतिघातादिकं च भाप्योक्तम् । ननु 'प्राणश :-
निर्दिष्टानीन्द्रियाणि ' प्रक्रम्य ' सर्व एवानन्ताः' इति श्रुत्या
सर्वेषामिन्द्रियाणां विभुत्वं ग्राह्यमित्यत्राह - श्रुतिमितमिति ।
यथोक्तं भाष्ये - हृदयस्थानां चेन्द्रियाणां तत्तन्नाडीभेदैः तत्त-
त्प्रदेशविशेषप्रसर्पात् तत्र तत्र कार्यकरत्वं चावधातव्यम् ।
अत्र ' सर्वे प्राणा अनूत्क्रामन्ति ' इति श्रुतेस्संकोचकाभावात्
आनन्ददायिनी
 
;
 
द्वारा प्राप्तिः । वृत्तिर्हि विकारविशेषः स च इन्द्रियव्याप्तिरेवेति भावः ।
ननु आगामिकव्यवहारस्वारस्यबाधाभावादित्यनेन रश्मिद्वारैव हैतुकवत्
प्राप्तिस्सूच्यते । अत एव न्यायसिद्धाञ्जने ' दूरस्थग्रहणे तु चाक्षुषमह:-
प्रसरात् संबन्धसिद्धिः । तच्च करणपादद्वितीयाधिकरणे प्रपञ्चितम् ।
प्रतिविम्बग्रहणे तु स्वच्छद्रव्यप्रतिहतस्य नयनमहसः प्रतिप्रसरादि
(मूलत्वं) भ्रान्त्यधिकरणे पूर्वपक्षेऽभिहितम्' इत्यादिना नयनरश्मि-
(गमना) प्रसरादिकमुक्तम् ; तत्कथं भाष्यानुमतम् ? इत्यत्राह - नयन-
रश्मीति । ' त एते सर्व एव समाः सर्वेऽनन्ताः' इति श्रुतेः 'अथ यो
ह वैताननन्तानुपास्ते' इत्युपासनोपक्रमात् उपास्यप्राणविशेषण भूतकार्य-
बाहुल्यपरत्वभित्याह—यथोक्तं भाष्य इति । ' अणवश्च' इति सूत्रभाष्य
इत्यर्थः । अत्र ' सर्वे प्राणा अनूत्क्रामन्ति' इति श्रुतेस्संकोचकाभावा-
दिति---ननु कर्मेन्द्रियाणां शरीरेण सहोत्पत्तिविनाशौ; न पुनस्तेषां