This page has not been fully proofread.

470
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
सर्वार्थसिद्धिः
 
चरितार्थत्वात् । अन्यथाऽतिप्रसङ्गात् । प्रतिबन्धकाभावे -
टोपनीत दृष्टसामग्रचैव कार्यसिद्धिर्नियता ! तदिह कारणान्तरं
यदि विभु स्यात् युगपदनेकेन्द्रियसंबन्धितया युगपत् पञ्च-
विषयज्ञानोत्पत्तिप्रसङ्गः । एवं देहपरिमाणत्वेऽपि । न च मन-
सस्ततोऽपि सूक्ष्ममध्यमपरिमाणत्वे प्रमाणमस्ति ! विभुनोऽपि
मनसः केनचित् शरीरावयवेन अवच्छिन्नतयैव कार्यकरत्व-
मिति चेन्न; तस्य निष्कम्पत्वे अन्यत्र कार्याभावप्रसङ्गात् ।
संचारित्वे तु तादृशवेगवतस्तस्य देहातिरिक्तत्वमणुत्वं च
साधीयः ; किमन्तर्गडुना व्यापकेन मनसा ? यस्तु सर्वेषां देहा-
वयवानां यथासंभवमवच्छेदकत्वं ब्रूयात् तस्य प्रागुक्तप्रस-
 
-
 
आनन्ददायिनी
 
भावः । नन्वस्तु; मनसस्तावताऽणुत्वं कथम् ? इत्यत्राह -- तदिहेति ।
नन्वस्तु मनसो मध्यमपरिमाणत्वम् ? इत्याशङ्कय किं देहपरिमाणत्वेन
मध्यमपरिमाणत्वं उत ततोऽपि न्यूनपरिमाणत्वेन ? इति विकल्पमभिप्रेत्य
क्रमेण दूषयति — एवं देहपरिमाणत्वेऽपीत्यादिना । विभुत्वेऽपि
धीक्रमं शङ्कते — विभुनोऽपि मनस इति । तस्य – शरीरावयवस्य ।
साधीय इति–यदि इन्द्रियैस्संबन्धार्थं मनोऽवच्छेदकोऽवयवोऽवयवान्तर-
देशं गच्छति तदा पूर्वावयवसंयोगनाशाच्छरीरनाशस्स्यात् । इन्द्रियाणामेव
यदि तद्देशप्राप्तिः, विषयसंबन्धो न स्यात् । यदि तावदिन्द्रियदेशव्याप्य-
वयवः ; तदा शरीरमेव स्यात् । यदि समवायिकारणभिन्नमवयवान्तरं ;
तर्हि तस्यैव मनस्त्वोपपत्तौ ततोऽतिरिक्तविभुकल्पनं व्यर्थमित्यर्थः ।
प्रागुक्तेति — युगपत् ज्ञानोत्पत्तिप्रसङ्गः । ' युगपत्ज्ञानानुत्पत्तिर्लिङ्गम् '