2025-01-21 07:43:33 by ambuda-bot
This page has not been fully proofread.
सरः] इन्द्रियविभुत्वनिरासः चित्ताणुत्वस्य धीक्रम सिद्धत्वोपपादनं च
तत्वमुक्ताकलापः
469
निष्क्रमादिः ? चित्ताणुत्वे तु सर्वेन्द्रियसमुदयने
धीक्रमोऽप्यस्तु मानम् ।
सर्वार्थसिद्धिः
र्मनसो लिङ्गम्' इति परोक्तं मनोविभुत्ववादप्रतिषेधोपयोगा-
दनुमन्यते । चित्ताणुत्वे त्विति । अयं भावः – व्यासङ्गदशायां
समग्रैरपि बाह्येन्द्रियैः युगपत् ज्ञानानि नोत्पद्यन्ते । दीर्घशष्कुली-
भक्षणादिषु च व्यासङ्गदृष्टान्तेन धीक्रमोऽनुमेयः । क्रमभाविकार-
णान्तरसापेक्षो ह्यसौ ! नचादृष्टभेदोऽपेक्ष्यः ! तस्य दृष्टोपहारेण
आनन्ददायिनी
माण (त्वमेव त्वं अणुत्वे च बाधकाभावमात्रं न साधकमिति (त्यस्वरसः)-
सूच्यते । परोक्तमिति । इन्द्रियाणामनुमेयत्वं नास्तीत्युक्तमेव ;
तथाऽप्यनुकूलत्वान्मनोनुमानं न दूषितमिति भावः । ननु (धी)
क्रमासिद्धेः कथं तन्मानम् ? इत्यत्राह - अयं भाव इति । दीर्घेति —
दीर्घशष्कुलीरसगन्धरूपादिधियः क्रमवत्यः (एकदा)स्वस्वविषयसन्निहित-
तत्तदिन्द्रिय(यान्तर) कालोत्पत्तिकज्ञानत्वात् तादृशेन्द्रियकालिकव्यासङ्गद-
शोत्पन्नक्रमिकधीवदिति केचिदाहुः । अन्येतु (केचित्तु ) उक्तधियो न युग-
पदुत्पत्तिमत्यः धीत्वात् इन्द्रियजन्य (घी) त्वाद्वा संमतवत् इति वदन्ति ।
परेतु रूपधीर्न रसकालसमुत्पन्ना रूपधीत्वात् संमतवादिति प्रत्येकमेवानु-
मानमित्याहुः । ननु च अदृष्टक्रमादेव धीक्रमोपपत्तौ न क्रमभावि-
कारणापेक्षत्यत्राह - न चादृष्टेति । दृष्टसंपत्तावदृष्टविलम्बेन कार्यविलम्बा-
भावात्; अन्यथा सहकारिमात्रस्य दृष्टकारणमात्रस्य वा विलोपप्रसङ्गादिति