2025-01-21 07:43:33 by ambuda-bot
This page has not been fully proofread.
468
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
सर्वार्थसिद्धिः
वादाच्च । आदिशब्देन देहान्तरावातिगत्यागतिसंग्रहः । न चैतेषां
जीववदणुत्वं विशेषतो दृश्यते ! तथा सति श्रोत्रादीनामनेकाधि-
ष्ठानवर्तित्वं स्पर्शनरसनयोश्च पृथुप्रदेशव्यापित्वं न स्यात् । सिद्धेऽ-
पि ह्यणुत्वे विकासशक्तया वृत्तिविशेषद्वाराऽऽप्यायकप्रचयाद्वा
पृथुत्वमङ्गीकार्यम् । अन्यथा पिपीलिकादिशरीरस्थस्य स्पर्शनस्य
गजादिशरीरप्रवेशे तादृशपृथुत्वासिद्धिप्रसङ्गात् । गजादिभ्यः
कीटादिशरीरप्रवेशे तु तादृशस्संकोचः । मनसस्तु परमाणुत्वेऽपि
सद्वारकविपय संबन्धसिद्धेरविरोधः । तत्र 'युगपत् ज्ञानानुत्पत्ति-
आनन्ददायिनी
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥
इति स्मृतिः। सर्वोपकरणाधिष्ठातृत्वाज्जीवोऽत्रेश्वरः । ननु 'अणवश्च' इति,
सूत्रस्वारस्यात् मध्यमपरिमाण (त्वे)साधकाभावादणुत्वमित्यत्राह — तथा
सतीति । ननु अधिष्ठानस्यानेकत्वे चक्षुश्श्रोत्रयोरप्यनेकत्वमस्त्वित्यत्रह-
स्पर्शनरसनयोश्चेति । जीववदणुत्वा (मध्यमपरिमाणान) ङ्गीकारे गौरवदोषं
चाह---सिद्धेऽपीति । अणुत्वपक्षे दूरस्थवस्तु (दूरस्थद्रव्यशब्द) ग्रहार्थं
व्यापिस्पर्शरसग्रहार्थं च संकोच विकासादिरूप (साई) वृत्तिसाधकानामि -
न्द्रियाणां प्रचयः संघातो । वाच्यः ; तथा च अणुरूपोन्द्रियाणि तेषा -
मणूनां विकासासंभवाद्विकासवृत्तिमद्दव्यं च किञ्चित् संघीभावार्थं
(संघीभूतं) चक्षुरादीनामेकस्मिन्नेव शरीरे बाहुल्यं च कल्प्यमिति
गौरवम् । (इन्द्रियाणां ) मध्यमपरिमाणत्वे (तु) तेषामेव तादृशवृत्तिविशेषोऽ-
ङ्गीकर्तुं शक्य इति(विशेषार्हत्वात् ) लाघवमिति भावः । अन्यथा - परमा-
णुत्वाङ्गीकारे । मनसस्त्विति - अपिशब्देन इन्द्रियत्वसाधर्म्येण मध्यमपारे-