2025-01-21 07:43:28 by ambuda-bot
This page has not been fully proofread.
466
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
--
[ जडद्रव्यं
तदेतत्सर्वमात्माणुत्ववादिनं प्रति न शोभते । ज्ञानासमवायि-
संयोगाधारत्वं च आत्ममनसोरसिद्धं ; ज्ञाननित्यत्वस्य साधयिष्य-
माणत्वात् । नित्यत्वे सति द्रव्यानारम्भकद्रव्यत्वादित्ये तच्चोत्पत्ति-
श्रुत्या अपहृतविशेषणम् । द्रव्यानारम्भकत्वं च भवतामवयव्यनार-
म्भकत्वम् । तच्चास्माकमणुष्वपि विद्यते । यदपि सर्वदा
विशेषगुणशून्यद्रव्यत्वात् कालवदिति ; असिद्धमिदमौपनिषदा-
नाम् ; त्रिगुणद्रव्ये मनसि सत्वादिविशेषगुणसंमतेः । दूरस्थ -
स्मृत्या मनोविभुत्वं कल्प्यमिति चेन्न ; अनुभवसंस्कारप्रत्या-
सत्त्यैव तदुपपत्तेः । एवमन्यदपि । तदिहैकादशानां 'अणवच' इति
आनन्ददायिनी
-
चार इत्याह--तदेतत्सर्वमिति । द्वितीयस्य स्वरूपासिद्धिरपीत्याह-ज्ञानेति ।
तत्र हेतुमाह-ज्ञाननित्यत्वस्येति । तृतीयस्यापि विशेषणासिद्ध्या स्वरू-
पासिद्धिमाह – नित्यत्वे सतीति । तच्चास्माकमिति तथा च तत्र
व्यभिचार इति भावः । आदिशब्दोपात्तमनुमानमनुवदति – यदपीति ।
सर्वदेति—आद्यक्षणे व्यभिचारवारणाय सर्वदेति । असिद्धत्ववारणाय-
विशेषेति । गुणादौ व्यभिचारवारणाय द्रव्यत्वादितीति विशेषणप्रयोजनं
द्रष्टव्यम् । दूरस्थेति—अविभुत्वे संबन्धाभावत् स्मरणं न स्यादिति तर्क-
बाध इति भावः । यद्यपि शाब्दानुमित्यादिवत् संबन्धो नापेक्ष्यः ;
तथाऽप्यभ्युपगम्याप्याह-- ( नेति) अनुभवेति । तदेवाह - अन्यदपीति ।
अणुत्वपक्षेऽपि आत्मनोऽण्यणुत्वात् तद्गतानुभव संस्कारयोरपि देशान्तरस्थेन
संबन्धाभावात्तत्संबन्धानुपपत्तेः पूर्वदोषतादवस्थ्यमित्यादिदूषणं परिहर्तव्य-
मित्यर्थः । परिहारस्तु विभुत्वपक्षेऽप्यतीतादिस्मरणवदिदमुपपन्नमिति ।
I