2025-01-21 07:43:17 by ambuda-bot
This page has not been fully proofread.
सरः]
मनोनित्यत्वनिरासः तद्विभुत्वानुमानदूषणं च
465
सर्वार्थसिद्धिः
श्रुत्यैव निरस्तम् । प्रकृत्येकदेशपरिणतिर्मन इति सिद्धे
विभुत्वानुमानानि च वाधितानि । यत्तु – मनो विभु सर्वदा
स्पर्शरहितद्रव्यत्वात् ज्ञानासमवायिसंयोगाधारत्वात् नित्यत्वे
सति द्रव्यानारम्भकद्रव्यत्वात् आत्मादिवत् इत्यादि ;
आनन्ददायिनी
•
पीन्द्रियत्वादिति भावः इदमुपलक्षणं - एतस्माज्जायते प्राणो
मनस्सर्वेन्द्रियाणि च' इति विशेषवचनात् । प्रकृत्येकदेशेति-अहङ्कार-
स्य प्रकृत्येकदेशतया तत्परिणामस्या ( णामनसो) प्येकदेशत्वनियमादिति
भावः । विशिष्य दूषणानि वक्तुम (क्तुं तदुक्ता ) नुमानान्यनुभाषते-
यत्त्वित्यादिना । स्पर्शरहितद्रव्यत्वादित्युक्तौ आद्यक्षणवर्तिघटादौ व्यभि -
चारः; तद्वारणाय सर्वदेति । यत्किञ्चिद्राहित्यवति परमाणौ व्यभिचार-
वारणाय स्पर्शति । गुणे व्यभिचारवारणाय द्रव्यत्वादिति । ज्ञानासमवा-
यीति - परमाण्वादौ व्यभिचारवारणाय ज्ञानेति । असिद्धिशङ्कावारणाय
संयोगेति । विषयव्यभिचारवारणाय असमवायीति । नित्यत्वं च परमाणौ-
द्रव्यानारम्भकद्रव्यत्वं च घटादौ ; नित्यत्वे सति द्रव्यानारम्भकत्वं च
जात्यादौ व्यभिचारीति विशेषणानि ! आदिशब्देन सर्वदा विशेषगुण-
शून्यद्रव्यत्वादिकं (विवक्षितम् ) द्रष्टव्यम् । सर्वेषामनुमानानामात्मनि व्यभि;
I
भावप्रकाशः
इत्यादितो राज्ञोऽपुरुषत्वं यथा न सिध्यति तथा ' एतस्माज्जायते प्राणो
मनस्सर्वेन्द्रियाणि च' इत्यादिश्रुतिभ्योऽपि मनसोऽनिन्द्रियत्वं न सिध्य-
तीति भावेन मनउत्पत्तीत्यनभिधाय इन्द्रियोत्पत्तीत्युक्तम् ।
SARVARTHA.
30