2025-01-21 07:43:21 by ambuda-bot
This page has not been fully proofread.
464
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[ जडद्रव्य
यदेतेष्विन्द्रियेषु मनसः कैश्चिन्नित्यत्वमुक्तं तत् इन्द्रियोत्पत्ति
आनन्ददायिनी
प्रसङ्गसंगतिं दर्शयति-- यदेतेष्विति । इन्द्रियोत्पत्तीति-मनसोऽ-
भावप्रकाशः
भूतेन्द्रियाणां हेतुस्स त्रिगुणत्वान्महामुने ॥ १ ।२। ३८ ॥
इत्युपक्रम्य-
भूततन्मात्रसर्गोऽयमहङ्कारात्तु तामसात् ।
'तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ।
,
एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥ १।२।४८ ॥
इत्यन्तग्रन्थे भूतानां तामसाहङ्कारकार्यत्वस्य एकादशानामिन्द्रियाणां
सात्विकाहङ्कारकार्यत्वस्याभिधाना देहादिन्द्रियाणां भेदस्सिद्ध इति भावः ।
अत्र 'देवा वैकारिका दश । एकादशं मनश्चात्र' इति पृथङ्मनसो
वैकारिकत्वमभिधाय 'देवा वैकारिकास्स्मृताः' इति दशानामिन्द्रियाणां
वैकारिकत्वोक्तिः 'दशेमे पुरुषे प्राणा आत्मैकादशः ' २५-९-४
इति बृहदारण्यकश्रुत्यनुसारेण तदर्थनिर्धारणाय । तेन तत्र आत्मशब्दो
मनःपरः । यथोक्तं—-'हस्तादयस्तु' इत्यादिसूत्रे शंकरभाष्येऽपि
'उत्तरसंख्यानुरोधात्त्वेकादशैव ते प्राणाः स्युः ; तथा चोदाहृता श्रुति:-
दशेमे पुरुषे प्राणाः आत्मैकादश:' इति । आत्मशब्देन चात्रान्तःकरणं
परिगृह्यते करणाधिकारात्" इत्यारभ्य "सर्वार्थविषयं त्रैकाल्यवृत्ति मनस्त्वे-
कमनेकवृत्तिकम्" इत्यन्तम् । अत्रानन्दगिरिटीका - 'बाह्येन्द्रियाणामित्थम-
नुमानेऽपि कथं मनसोऽनुमानं तत्राह - सर्वेति । इन्द्रियाणां वर्तमानतत्तदेका-
र्थनियतत्वादतीतादिसर्वार्थज्ञानाच्च तदर्थमिन्द्रियान्तरं कल्प्यमित्यर्थः '
इति । एतेन अद्वैतपरिभाषाभूमिकायां गोविन्दसिंहोक्तिश्शंकरभाष्याद्यपरा-
मर्शमूलेति सिद्धम् । * इन्द्रियोत्पत्तीति- ' अत्र राजा सर्वे पुरुषाश्च वर्तन्ते '
66
6