This page has not been fully proofread.

सरः] पूर्वोक्तापत्तिदार्ध्यं कल्पकान्तरनिरासः देहातिरेकासिद्धिरिष्टापत्त्ययोगश्च 463
 
तत्वमुक्ताकलापः
 
तया सर्वजन्तोस्तदेकं भेदान्नानाद क्लृप्तेरपि नच
भजते देह एवेन्द्रियत्वम् ॥ ३८ ॥
 
सर्वार्थसिद्धिः
 
अतिरिक्तेन्द्रियकल्पने ऽपि देहावयवानां नियतोपकारकत्वमिष्यते ।
अस्तु तर्हि अयमेव पक्ष इत्यत्राह - भेदाम्नानादिति । अयं भावः-
'* भौतिकाद्देहादिन्द्रियाणां सात्विकाहङ्कारोपादानकत्वेन भेदा-
म्नानात् क्लृप्तिप्रसङ्गाभावात् बाधाच्च सुधाऽत्र लघुपक्षोक्ति -
रिति ॥ ३८ ॥
 
एकेन्द्रियवादभङ्गः
 
आनन्ददायिनी
 
ध्येयम् । कल्पनपक्षेऽपि देहस्यैवावश्यकतया इन्द्रियत्वमस्त्वित्यत्राह -
अतिरिक्तेति । नन्विन्द्रियाणि देहभिन्नानीति न क्वचिदप्याम्नातमित्यत्राह-
अयं भाव इति । साक्षाद्भेदान्नानाभावेऽपि उभयोर्भिन्नोपादानकत्वदेहा-
श्रितत्वादिबोधनात् तत्सिद्धमिति भावः । क्लृप्तिपक्षे लाघवन्यायेन
देहस्येन्द्रियत्वप्रसङ्गो नात्र क्लृप्तिरित्यत्राह -- क्ऌप्तिप्रसङ्गाभावादिति ॥
एकेन्द्रियवादभङ्गः
 
भावप्रकाशः
 
1 * भौतिकादित्यादि - ' पञ्चतन्मात्रा भूतशब्देनोच्यन्ते । अथ
पञ्च महाभूतानि भूतशब्देनोच्यन्ते । अथ तेषां यत्समुदयं तच्छरीर-
मित्युक्तम्, इति मैत्रायणीयश्रुतिर्देहं भौतिकमावेदयति । विष्णुपुराणे -
त्रिविधोऽयमहङ्कारा महत्तत्त्वादजायत ।