This page has not been fully proofread.

462
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
भेदानां कथम् ? न कथञ्चिदिति चेत्; तर्हि अनेकेन्द्रियवादः ।
पुञ्जकत्वमस्त्विति चेत्; किमतः ? ग्राहकांशानां मिथो भिन्न-
त्वात् ।
 
नच तत्ता तदन्यस्य नच तस्य ततोऽन्यता ।
 
सत्ताद्यैर्जेनवद्वाच्या सर्वमानविरोधतः ॥
स्पर्शनस्य पुञ्जस्य भागाश्चक्षुरादय इत्यप्यसत्; नियामका-
भावात् । अत्र अवयविसामान्यसादृश्यापोहादिभिरैक्यकल्पने
अपसिद्धान्तातिप्रसङ्गौ । देहातिरिक्तेन्द्रियकल्पनं चास्मिन् पक्षे
अपार्थम् । न ह्यत्र दृष्टहानिरदृष्टकल्पना वा ! कुतस्तगौरवम् ?
 
1
 
आनन्ददायिनी
 
तत्प्रदेशावयवानां कथमैक्यमित्यर्थः । तर्हीति – तत्प्रदेशानां भिन्ना-
नामिन्द्रियत्वादिति भावः । किमत इति — ग्राहकांशै क्यानुपपादनादिति
भावः । ननु प्रदेशानां मिथो भिन्नत्वेऽपि पुत्रैक्यादैक्यमस्तु इति चेत्
तत्राह–नचेति । तदन्यंस्य - तद्भिन्नस्य तत्ता - तत्तादात्म्यं, तदात्मनो वा
तद्भिन्नत्वं न संभवतीत्यर्थः । ननु भिन्नस्याप्यभिन्नताऽस्तु ' स्यादस्ति' इति
न्यायेनेत्यत्राह—सत्त्वाद्यैरिति । तथा सति सर्वमानविरोधात् जैनमत-
वदूषणवचनार्हमित्यर्थः । पुत्रैक्यमपि नास्तीत्याह – स्पर्शनेति । ननु
तव स्पर्शनेन्द्रिय (वि) भा (गभेदेऽपि ) गादेरपि स्पर्शनेन्द्रियावयविवत्
ज्वालानां भेदेऽपि सामान्यसादृश्यापोहादिनैक्यवदैक्यमस्त्विति चेत्;
अत्राह - अवयवीति । अवयविसामान्यपक्षेऽपसिद्धान्तो बौद्धस्य ;
तदभावात्सामान्यादिषु त्रिष्वतिप्रसङ्गः । एतादृशैव कल्पनं च (कल्प-
नस्य च न किंचित्प्रयोजनं भेदाविरोधित्वात् ) नेन्द्रियभेदविरोधत्यपि