2025-01-21 07:43:12 by ambuda-bot
This page has not been fully proofread.
सरः] एकदेहै केन्द्रियवादे श्रुत्याबाधः श्रौते गौरवस्यादोषता सर्वदे है केन्द्रियापत्तिश्च 461
तत्वमुक्ताकलापः
भवेदागमेनैव बाधः । नो चेत्स्याद्देहभेदप्रतिनियत-
सर्वार्थसिद्धिः
न्तरादौय्य सूचनाय प्राथम्योक्तः । आगमेनैव — धर्मिग्राहकेणैवे -
त्यर्थः । गौरवदोषश्च क्लृप्तिपक्षे वक्तव्यः नास्मत्पक्ष इति चाभिप्रेतम् ।
इन्द्रियक्लप्तिः प्रागेव निरस्ता । अत्र तदेकत्वक्लप्तावतिप्रसङ्ग-
माह - नो चेदिति । यथैकमेवाकाशं तत्तत्पुरुषादृष्टोपार्जित कर्ण-
शष्कुल्यवच्छेदभेदैः प्रतिपुरुषं व्यवस्थितोपकारकमिति वैशेषिका-
दिभिः कल्प्यते तथा त्वयाऽपि एकमेवेन्द्रियं तत्तद्भोगायतनभेद-
नियतशक्तिकं सर्वोपकारकं कल्प्यमिति भावः । नचैवमस्त्विति
वाच्यम्; अपसिद्धान्तात् । ननु नानादेहमध्येषु वसतः
कथमेकत्वमिति चेत्; चक्षुर्गोळकाद्यवच्छिन्नानां इन्द्रियप्रदेश-
आनन्ददायिनी
रादिति - नो चेदित्यादिदूषणान्तरादित्यर्थः । भिन्नेन्द्रियक्लृप्तिपक्षे तदुक्तं
परिहरति-- गौरवदोषश्चेति । इन्द्रियक्लप्तिरिति कल्प्यत्वे गोळका-
तिरिक्तं न सिध्येदित्यादिना निरस्तेत्यर्थः । अतिप्रसङ्गमेवोपपादयति--
यथैकमेवाकाशमिति । तत्तद्भोगायतनं-- तत्तच्छरीरं तत्तदिन्द्रियाधिष्ठानं
वा । अपसिद्धान्तादिति - ' प्रतिपुरुषभिन्नं तदायतनसंज्ञितम्' इत्युक्ते -
रिति भावः
नानादेहमध्येष्विति—नानादेशस्थ देहान्तराळदेशे-
ष्वित्यर्थः । ननु नानादेहमध्येषु सत्त्वमसिद्धं । नचानुपलम्भस्साधकः
योग्यानुपलम्भाभावात् ; न च मध्यदेशेऽपि तत्सत्त्वे कार्यप्रसङ्गः भोगा-
यतनावच्छेदेनैव तदनुकूलशक्तिनैयत्यादिति परिहारे सत्येव प्रतिबन्द्या
समाधत्ते – चक्षुर्गोळकेति । चक्षुश्श्रोत्रगोलकमध्ये तदवयवानामभावात्