2025-01-21 07:43:12 by ambuda-bot
This page has not been fully proofread.
460
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
तत्वमुक्ताकलापः
एकं तत्तत्प्रदेश प्रतिनियततया शक्तिभेदं प्रपन्नं
देहव्यापीन्द्रियं चेत् प्रथममिह
सर्वार्थसिद्धिः
कल्प्यते शक्तिभेदश्चेत् शक्तिरेवेन्द्रियं भवेत् ।
इति च अयुक्तम् ; धर्मिकल्पनातो वरं हि धर्मकल्पनम् ! प्रदेशाना-
मेव तत्तत्करणत्वोपपत्तौ प्रदेशक्लप्तिरनर्थिकेति चेन्न ; देहव्या-
पिनः स्पर्शस्योभयसंमतेः । तस्य च करतल प्रकोष्ठास्यनेत्रादिषु
स्पर्शग्रहणशक्तिवैषम्यदृष्टेः । अतश्चैकस्यैव सर्वत्र देहे स्पर्शनत्वं
तत्र तत्र चक्षुरादित्वं चेति । तदेतदाह – एकमिति । किमेकेन्द्रि-
यस्य श्रुतस्य कल्पितस्य वा शक्तिभेदव्यवस्थापनम् ? इति
विकल्पमभिप्रेत्य आद्यं दूषयति — प्रथममिति । बाधस्य दूषणा-
आनन्ददायिनी
रूपादिबोधहेतुत्वादेतान्यायतनानि षट् ॥
इति बौद्धविलासवचनमपि शक्तिभेदपरतया व्यवस्थाप्यमित्यर्थः ।
ननु शक्तिभेदो यद्यङ्गीक्रियते तर्हीन्द्रियभेद एवाङ्गीक्रियतां अविशेषादिति
शङ्कते — कल्प्यते शक्तिभेदश्चेदिति । इन्द्रियकल्पनापक्षेऽपि शक्तिभेद-
कल्पनाया आवश्यकत्वादिति भावः । ननु यद्येकस्मिन् शक्तिभेदकल्पना
तदा चक्षुरादिदेशव्यापीन्द्रियावयवि कल्प्यं; अन्यथा शक्तिभेदव्यवस्था-
योगात् ; तथाच तदारम्भकतत्तद्देशवर्त्यवयवानामेव करणत्वमस्तु किं
तदवयविना तत्र शक्तिभेदकल्पनया च ? इति शङ्कते - प्रदेशानामेवेति ।
नेति-तादृशस्य त्वगिन्द्रियस्य त्वयाऽभ्युपगमादिति भावः । नन्वेकस्मिन्
विचित्रशक्तिकल्पनं क्वचिदपि न दृष्टमित्यत्राह --तस्य चेति । दूषणान्त-