2025-01-21 07:43:06 by ambuda-bot
This page has not been fully proofread.
सरः] चित्तस्यकरणत्वेमानाभावः अहङ्कारविषयकाकरनिर्वाहः एकेन्द्रियवादोपक्षेपश्च459
सर्वार्थसिद्धिः
अहमर्थहेयत्वनिरासपरतयान्यार्थमन्वारुह्याप्युपपत्तेः । अनुग्राह-
कत्वमात्रेण परम्परया वा गर्वहेतुत्वोक्तेरविरोधादिति ॥ ३७ ॥
अन्तःकरणवैविध्यभङ्गः
नन्वेवं वाह्यकरणभेदोऽप्यपोहितुं शक्यः । मनोवदेकस्य
वृत्तिभेदात् पृथक्कार्यव्यपदेशोपपत्तेः । आहुच बाह्यैकदेशिनः–
'एकैकदेहेष्वकमेवेन्द्रियं ; प्रदेशभेदैस्तु रूपादिप्रकाशनशक्तिनि-
यमः । षडायतनागमोऽपि तथैव व्यवस्थाप्यः स्वरूपभेदप्रयोजना-
भावात् ।
आनन्ददायिनी
1
अन्यार्थ — बुद्धिविशेषहेयत्वपरमित्यर्थः । तत्र हेतुः – अन्वारुह्येति ।
उपपत्तेरिति । अहमर्थात्म (त्व) समर्थनस्योपपत्तेरित्यर्थः । ननु अहङ्कारस्या-
नर्थेतुबुद्धिविशेषहेतुत्वाभावे कथं तत्तत्याज्यतापरत्वं वचनस्येत्यत्राह—
अनुग्राहकत्वेति । तथाच तावन्मात्रेण अञ्जनादिवत् न करणत्वं
सिध्यतीति भावः ॥ ३७ ॥
अन्तःकरणैवैविध्यभङ्गः
अक्षेपसंगतिमाह — नन्वेवमिति ।
ज्ञानेन्द्रियाणि पञ्चापि तथा कर्मेन्द्रियाणि च ।
मनो बुद्धिरिति प्रोक्तं द्वादशायतनं बुधैः ॥
इति । बौद्धैः (बाह्यकरणानां ) द्वादशानामङ्गीकारादेकदेशिन इत्युक्तिः ।
1
आगम इति—
चक्षुः श्रोत्रं तथा प्राणं रसनं स्पर्शनं मनः ।