This page has not been fully proofread.

458
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
सर्वार्थसिद्धिः
 
नच चित्तं नाम तत्वान्तरं सृष्टिप्रलयप्रकरणेषु पठ्यते ! 'अय-
मेव त्वहङ्कारः उत्कृष्टजनावमानहेतु:' इत्यादि प्रथमसूत्रभाष्यं
 
आनन्ददायिनी
 
करणानां तादधीन्यकथनानन्तरं ज्ञानस्य तथात्वकथनमिति । नच
द्रव्यप्रकरणविरोधः ! ज्ञानस्यापीन्द्रियादिवत् अवस्थाविशेषाश्रयद्रव्य-
त्वादित्याहुः । ननु वृत्तिभेदमादाय कथञ्चिन्नयने को हेतुरित्यत्राह -
चित्तं नामेति । अन्यथा सृष्टिप्रलयप्रकरणेषु पृथिव्यादिवत् पाठप्रसङ्ग
इति भावः । नच 'इन्द्रियाणि तन्मात्रेष्विति मनसो यथा पाठः तथा
स एव बुद्ध्यादेः पाठोsस्तु । किञ्च महदहङ्कारयोरेव बुद्ध्यहङ्कारत्वात्
'प्रकृतेर्महान् महतोऽहङ्कारः' इति तयोः पाठो दृश्यत इति शङ्कयम् !
तैर्बुद्ध्यादेरिन्द्रियत्वानभ्युपगमात् ;
तदतिरिक्तत्वे पाठाभावात् ;
 
-
 
' इन्द्रियाणि दशैकं च ' ' चक्षुश्श्रोत्रम्' इति विशेषकीर्तनात् । कीर्ति -
तयोर्महदहङ्कारयोश्च सद्वारकाद्वारकतयेन्द्रियजनकयोः करणत्वाभावाच्चेति
भावः । ननु बुद्ध्यादीनामिन्द्रियमध्ये पाठो व्यर्थः मनः पाठमात्रेणाऽपि
चारतार्थत्वात् इति चेत् ; अत्राहुः — सर्वेन्द्रियप्रधानस्यापि मनसस्सर्वा -
वस्थायामपि तादधीन्यसिद्ध्यर्थं बुद्ध्यहङ्कारवृत्तिविशिष्टस्य वा सर्वत्र
प्रवृत्तिप्रयोजकतया प्राधान्यद्योतनार्थं त्रेधा कथनमिति । अन्ये तु
प्रकरणस्य तादधीन्यमुखेन स्वातन्त्र्यभ्रमनिवृत्तिपरत्वात् न भेदेन
कथनवैयर्थ्यं द्रष्टव्यम् । बोद्धव्याहङ्कर्तव्यानां भेदाभावेऽपि पृथगुक्तेरिव
किञ्चिद्विशेषमादायापि स्वातन्त्र्यबुद्धिनिरासः फलमित्याहुः । ननु
अयमेव त्वहङ्कार इति भाष्ये अहङ्कारस्य उत्कृष्टजनावमानरूपप्रवृत्ति-
करणत्वोक्तेः मनोऽतिरिक्तमप्यन्तःकरणमभिमतमित्यत्राह - अयमेव त्विति ।