2025-01-21 07:42:58 by ambuda-bot
This page has not been fully proofread.
सरः]
करणगणपाठस्य करणत्वासाधकता पाठस्योपपत्तिश्च
457
आनन्ददायिनी
अथैष ज्योतिः अथैष विश्वज्योतिः अथैष सर्वज्योतिः एतेन सहस्र-
दक्षिणेन यजेत' इति । तत्रैतच्छब्दपरामृष्टानां ज्योतिरादिशब्दानां
योजना सामानाधिकरण्याद्यागनामत्वं तावत्सिद्धम् । तत्र प्रकृतमेव
ज्योति(ष्टोमज्योति) रादिशब्दैरनूद्य सहस्रदक्षिणा रूपगुणो विधीयत इति
पूर्वपक्षयित्वा नामान्तरश्रुतौ तावदर्थभेदः प्रतीयते संज्ञाभेदस्यार्थभेदक-
त्वात् प्रकृतात् ज्योतिष्टोमाद्भेद उक्तः । तथा शब्दान्तराधिकरणे (ऽपि च
यजति ददाति जुहोतीति शब्दभेदात् भेद उक्त इति तन्नयायेनात्रापि
भेदस्स्यादिति चेत् ; अत्राहुः ---- न तावत् संज्ञाभेदस्योक्ताधिकरणन्यायेन
भेदकत्वं बलवता बाधकेन बाधितत्वात् । तदुक्तं तदधिकरणराद्धान्ते—-
बलवद्बाधकाच्चासावन्यथात्वं प्रपद्यते ।
इति । प्रकृते च एकादशत्ववचनानि बाधकानि । नापि शब्दाधिकरण-
न्यायः! वेदनध्यानोपासनानां भेदप्रसङ्गात् । आहवनीयादिशब्दानां
पशुच्छागादिशब्दानां हविः पुरोडाशादिशब्दानामपि भेदकत्वापत्त्या
बहुदोषप्रसङ्गात् । तस्मादत्रापि बाधकाभावे भेदकत्वं वाच्यम् ।
बाधककरं चात्रोक्तमेवेति । केचित्तु - तेषां भेदोऽस्तु नाम ! नच करण-
त्वमपि ! तत्साधकाभावात् । अत एव न शब्दान्तराधिकरणविरोघोडापे ।
नच भाष्यमूलयोर्विरोधः ! इन्द्रियत्वं करणत्वं चाभ्युपेत्य प्रवृत्तेः ।
नच करणमध्ये पाठात् करणत्वप्रसक्तिः ! अनुवादसन्निधेरकिञ्चित्कर-
त्वात् । पुरोवादे महतोऽहङ्कारस्य च तत्वान्तरोपादानतया करणत्वेन्द्रिय-
त्वाभावात् । अत एवाङ्गत्वाभावनिश्चयाद्दर्शपूर्णमासाभ्यामिष्ट्रा सोमेन -
यजेतेत्यत्र कालार्थस्संयोगो नाङ्गाङ्गिभावार्थ इयुक्तम् । महदाद्यतिरिक्त-
परत्वे तु तत्वाधिक्यप्रसङ्गः । ज्ञानादिपरत्वेनान्यथासिद्धिश्च। अहङ्कार
शब्दोऽपि ज्ञानपर एव बुद्धिशब्दसन्निधानात् । युक्तं च तथा ज्ञान-