This page has not been fully proofread.

456
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
बुद्ध्याद्याख्या निरूढा क्वचिदिह मनसो वृत्ति-
 
वैचित्रयमात्रात् ॥ ३७ ॥
 
अतः
 
सर्वार्थसिद्धिः
 
करणगणमध्यपाठात् अग्रयप्रायनयेन बुद्ध्यादीन्यपि
 
करणानि स्युः ? इत्यत्राह — बुद्ध्याद्याख्येति । तथाच भाष्यं-
'अध्यवसायाभिमानचिन्तावृत्तिभेदात् मन एव बुद्धयहङ्कारभेदै-
र्व्यपदिश्यते ' इति । अतः तत्ववर्गमध्ये मनोऽनन्तरं बुद्धयादि-
चित्तान्तपाठोऽपि मनस एव हि वृत्तिभेदविशिष्टस्येति नेतुं शक्यम् ।
आनन्ददायिनी
 
अग्रयप्रायेति—अग्रया (ग्रयप्राया) णां बहुत्वे तन्मध्यगतस्याप्यग्रयत्व-
बुद्धिविषयत्वम् । तथा करणमध्यपाठात् करणत्वनिश्चय इत्यर्थः ।
अपसिद्धान्तं वारयति - तथाच भाव्यमिति । त (अ) त्र युक्तमाकाङ्क्षा-
नुवृत्तिस्तद्बलाद्राजसूयाङ्गत्वं च राजसूयशब्दस्य तदङ्गत्वाकाङ्क्षो
द्बोधकस्य सत्त्वात् ; नचात्र करणत्वोद्बोधकमस्ति ! नच करणमध्य
संदेशात्करणत्वम् ! इन्द्रियमध्यसंदंशात् बाह्यमध्यसंदंशाच्च बाह्ये-
न्द्रियत्वस्यापि प्रसङ्गात् । नचेन्द्रियत्वादौ बाधकमस्तीति चेत्; करण-
त्वेऽपि समानम् । नचेन्द्रियत्वमप्यस्त्विति वाच्यम्; अपसिद्धान्तात् ।
' इन्द्रियाणि दशैकं चं ' इत्यादिविरोधात् । किंच स्थानप्रकरणाभ्यां
लिङ्गं बलीय इति सिद्धान्तितम् । तथाच प्रकृतित्वरूपलिङ्गात् अग्रय-
प्रायरूपस्थानसंदेशन्यायरूपप्रकरणयोर्बाधात् न करणत्वनिश्चय इत्यर्थः ।
अभिमानः-- अहं कर्तेति बुद्धिः । अत इति — ननु ' संज्ञाचोत्पत्ति-
संयोगात्' इत्यधिकरणविरोधः ; तथा हि-ज्योतिष्टोमप्रकरणे श्रूयते