2025-01-21 07:42:58 by ambuda-bot
This page has not been fully proofread.
सरः] अन्तःकरणवैविध्ये तत्वपङ्क्तिपाठमात्रं न साधकं वृत्तिभेदमात्रस्याकल्पकता च455
सर्वार्थसिद्धिः
भेदमन्येऽप्याहुः ! श्रूयते च 'कामस्संकल्प' इत्यादौ ' एतत्सर्वं
मन एव' इति । अत्र आयुर्धृतमित्यादिवत्सामानाधिकरण्यम् ।
पुरुषधर्मा एव हि कामादयोऽध्यवसायादयश्च ! तदिह पुरुष-
बुद्धिभेद नियतसामाग्रीभेदव्यवस्थितं वृत्तिभेदमात्रं न करणभेद-
कल्पकमिति भावः । ननु ' चक्षुश्च द्रष्टव्यं च नारायणः' इत्या-
दिना पञ्च ज्ञानेन्द्रियाण्युक्ता ' मनश्च मन्तव्यं च नारायणः ।
अहङ्कारोऽहङ्कर्तव्यं च नारायणः । चित्तं च चेतव्यं च नारा-
यणः' इत्याम्नातम् । अनन्तरं चैवं कर्मेन्द्रियाण्यधीतानि ।
आनन्ददायिनी
निश्चयः । न च विनिगमकाभाव इत्यत्राह — श्रूयते चेति । एकस्यैव
मनसो बाह्यवृत्तय इति सिद्धा इत्यर्थः । चकारेण 'पञ्चवृत्तिर्मनोवयप-
दिश्यते ' इति प्राणविषयसूत्रसिद्धत्वं चाभिप्रेतम् । ननु भवन्मते कामा-
दीनामात्मधर्मत्वात् मनसि श्रूयन्त इत्ययुक्तं ? ) नोवृत्तित्वं कथम् ? तथा
सति करणस्यैवात्मत्वप्रसङ्गः । कथं वा तेषां भेदव्यपदेशनिमित्तत्वं
चेत्यत्राह—अत्रेति । तथाच तद्गतत्वाभावेऽपि तत्सामानाधिकरण्यनिर्देशः
तद्भेदव्यपदेशनिमित्तत्वं च संभवतीत्यर्थः । ननु पूर्वतन्त्रे स्थानप्रकर-
णयोर्बलाबलविचारेऽपि इष्टिसोमात्मकराजसूयान्तर्गताभिषेचनीयनामक-
सोमयागसन्निधौ विदेवनादयस्समाम्नाताः । ते किं सर्वस्य राजसूयस्या
उताभिषेचनीयस्येति संशय्य सन्निधि ( वशा) बलादभिषेचनीयस्याङ्ग-
मिति पूर्वपक्षयित्वा श्रुत्यादिविहिताङ्गसंदेशाद्राजसूयाङ्गत्वम् ? पवित्रा -
दारभ्य क्षत्रस्य धृतिं यावत् अङ्गविधिषु प्रायेण ' राजसूयाय ना
उत्पुनाति ' इति राजसूयप्रकरणानुवृत्तिसत्त्वादिति राद्धान्तितम् ; तन्नया-
येन संदेशात् करणत्वबुद्ध्यनुवृत्तेः करणत्वमिति शङ्कते–नन्विति ।