This page has not been fully proofread.

454
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
ङ्कारभेदात् चित्तं चान्ये चतुर्थ विदुरुभयमसत्
तादृशश्रुत्यभावात् । तत्तत्तत्वोक्तिमात्रं न हि कर-
णभिदामाह क्लप्तिस्तु गुर्वी
 
सर्वार्थसिद्धिः
 
-
 
उभयमसदिति । कथमित्यत्र श्रुत्या कल्पनया वा तत्सिद्धिरिति
विकल्पे प्रथमस्यासिद्धिमाह — तादृशेति । ननु तान्यपि त्रीणि
सुबालोपनिषदि पृथिव्यादितत्वपङ्कौ मनसोऽनन्तरं पठ्यन्त
इत्याह- तत्तदिति । अयं भावः – न हि तत्वपतिपाठमात्रा -
न्मनस्सहपाठ मात्राद्वा करणत्वं सिध्येत्; तथा सति अव्यक्तादी-
नामपि तत्प्रसङ्गादिति । द्वितीयं दूषयति- क्लप्तिरिति । एकस्यैव
हि मनसः स्मृत्यनुभवभेदेन वा संकल्पविकल्पभेदेन वा वृत्ति-
 
आनन्ददायिनी
 
असिद्ध्यभावमाशङ्कते -- नन्विति । प्रतिज्ञामात्रं न साधकमित्यत्राह -
अयं भाव इति । तथा सतीति — व्यभिचारान्न साधकमिति भावः ।
द्वितीयमिति — वृत्तिभेदमादायान्यथासिद्धो व्यपदेशभेदो न साधक इति
भावः । ननु मन (सो)सि वृत्तिभेदोऽप्यसिद्धः कल्प्य इति कल्प्यत्वा-
विशेषात् कारणभेद एव कल्प्यतामित्यत्राह - एकस्यैव हीति । सांख्या
अपि एकस्यैव मनसो वृत्तिभेदेन चित्तं मन इति व्यपदेशभेदं निर्वह-
न्तीत्यर्थः । संकल्पः कर्तव्यताध्यवसायः । विकल्पः – अयमिति
 
-