This page has not been fully proofread.

सरः] अलौकिकस्य शास्त्रकगम्यता अनुमानव्यवस्था करणगणने सांख्यमतंच 453
 
तत्वमुक्ताकलापः
 
सांख्यैस्त्रे धोक्तमन्तःकरणमिह मनोबुद्धयह-
सर्वार्थसिद्धिः
 
कार इति तात्पर्यम् ॥ ३६॥
 
एकादशेन्द्रियसिद्धिः
 
उक्तेष्विन्द्रियेषु एकमेवान्तःकरणमिति तत्वम् । सांख्या-
 
स्त्वाहु:-
 
' करणं त्रयोदशविधम् '
 
अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ॥
इति । अन्ये तु चित्ताख्यमप्यन्तःकरणमन्यदाहुः ; तदनुभाषते-
सांख्यैरिति । तदिदं मतद्वयं निष्प्रमाणकमित्याह
आनन्ददायिनी
 
साध्यस्य पक्षादन्यत्र सिद्धविशेषापेक्षया विरुद्धधर्मदर्शनात् विशेष-
विरुद्धत्वमित्यर्थः । तथा च अनुमानमात्रेण न गोळकातिरिक्तेन्द्रिय-
सिद्धिरित्युपसंहरति--अत इति ॥ ३६
 
:
 
एकादशेन्द्रियसिद्धिः
 
प्रासङ्गिकीं संगतिं दर्शयति-उक्तेष्विति । विप्रतिपत्तिं दर्शयति-
सांख्यास्त्विति । करणं त्रयोदशविधम्' इति सांख्यसप्ततिश्लोके
बाह्याभ्यन्तरविभागाभावेऽपि बाह्यानां दशत्वे शेषाणामान्तरत्वं सिध्यतीति
भावः । विशेषतोऽपि तत्रैवोक्तमिति दर्शयति –अन्तः करणमिति ।
वाचस्पतिनेत्थं व्याख्यातं - 'अन्तःकरणं महदहङ्कारमनोभेदेन त्रिविधम् ।
दशविधमपि बाह्यमिन्द्रियं त्रयस्यान्तःकरणस्य विषयाख्यं -- बुद्धीन्द्रियं
आलोचनेन कर्मेन्द्रियं स्वव्यापारेण संकल्पाभिमानाध्यवसायेषु विषयमा -
ख्याति द्वारीभवतीत्यर्थः । अन्ये त्विति – मायिमतानुसारिण इत्यर्थः ।