2025-01-21 07:42:39 by ambuda-bot
This page has not been fully proofread.
सरः]श्रौतेन्द्रियैकादशत्वाबाधः तलक्षणान्तरनिरासः स्वमतलक्षणं सांख्यैककण्ठ्यंच 451
सर्वार्थसिद्धिः
णके यथाशब्दं व्यवस्थापनात् । सांख्यैरप्यत्र शास्त्रमेवानुसृतम् -
सात्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।
इति । साधितं च सप्तगत्यधिकरणसिद्धान्ते हस्तादीनामपि
आनन्ददायिनी
तथा भूतानामपि प्रकृतिकोटिप्रवेशे 'अष्टौ प्रकृतय' इति विरोधात् ।
तथाच तत्वान्तरप्रकृतित्वं वाच्यमिति राजसाहङ्कारस्य प्रकृतित्वाभावेन
विकारकोटिप्रवेशप्रसङ्गः । नचाहङ्कारजातीयस्य प्रकृतित्वात् तस्यापि
प्रकृत्यन्तर्भावः ; वैपरीत्यप्रसङ्गात् इति चेत्; अत्राहुः --- सात्विकता-
मसयोरिन्द्रियभूतारम्भकयो राजसस्य प्रकृतित्वं (नाम) न निमित्त (त्वमात्रं ;)
तया; किंतु द्विधा विभक्त उभयत्र संबद्धस्सन् उपादानीभू (यैव ) तत-
यैव (सहकार ) यथा शरीरोत्पत्तौ (पञ्चीकृतानां तदंशानां ) पृथिव्या
इतरभूतानि ; तथा पृथ्व्या अण्डाद्युत्पत्तौ । नच सहकारित्वव्यपदेशो
न स्यात् स्याच्चापादानत्वव्यपदेश इति वाच्यम्; यथा पञ्चीकरणस्थले
इतरभूतानां स्वल्पतया नियतैक भूतत्व (भूतत्वादि) व्यपदेशः तथा सह-
कारित्वेनैवात्रापि व्यपदेश: ; अन्यथा कार्ये दण्डादेरिवानुवृत्त्ययोगाद्र-
जोगुणः तत्कार्यचलनादिक्रिया च न स्यादिति । अन्ये तु निमित्तत्वमेव
राजसाहङ्कारस्य ; नच विकारकोटिपरिगणनापत्तिः ; तत्वान्तरोपादान-
निष्ठतत्वविभाजकधर्मावच्छिन्नत्वमुपादानत्वम् ; तद्भिन्नतत्वविभाजक-
धर्मावच्छिन्नत्वं विकारत्वमिति विवक्षितत्वात् ! उपष्टम्भकगतेनापि रज-
सा चलनाद्युपपत्तिः यथा स्वर्णतैजसत्वमते गुरुत्वादीत्याहुः । सात्विकः-
सत्वगुणेन व्यवह्रियमाणः- सत्वगुणाश्रय इति यावत् । वैकृताहङ्कारः-
सात्विकाहङ्कारः । सात्विकान्येकादशेन्द्रियाणि सात्विकाहङ्कारादुत्पद्यन्त
इत्यर्थः । एकादशकः — एकादशसंख्यया
--
परिमितः ;
'संख्याया
29*