2025-01-21 07:42:37 by ambuda-bot
This page has not been fully proofread.
450 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[ जडद्रव्य
चनम् । 'एका कन्या दशेन्द्रियाणि ' इत्यादेर्न हि कचिद्वाधो
दृश्यते ! नच कणभक्षाक्षपादाद्यनुसारेण पदकावच्छिन्नेन्द्रिय-
लक्षणक्लप्तिर्युक्ता ! यथाऽऽहुः -
सिद्धानुगममात्रं हि कर्तुं युक्तं परीक्षकैः ।
न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् ॥
इति । वक्ष्यते चानुवृत्तं तल्लक्षणं सात्विकाहङ्कारोपात्तत्वम् । नच
कर्मेन्द्रियाणां तन्त्रान्तरसिद्धं राजसत्वमनुमन्तव्यम् ; शब्दप्रमा-
आनन्ददायिनी
एका कन्येति—चञ्चलत्वान्मनः कन्येत्युक्तम् । 'इन्द्रियाणि दशैकं च '
इति स्मृ(तिरनुसन्धेया)तिः । ननु शरीरसंयुक्तमतीन्द्रियं ज्ञानकारणमि-
न्द्रियमित्यादिलक्षणाभावाद्वागादीनां नेन्द्रियत्वामित्यत्राह-न च कण-
भक्षाक्षपादेति । तेषामव्याप्तत्वान्न लक्षणत्वमिति भावः । अव्याप्तिमेव
दर्शयति-यथाऽऽहुरिति । सर्वलोकव्यवहारसिद्धवागादावव्याप्तेरिति
भावः । अन्यथा गवां क्षीरवत्त्वे सति सास्नावत्त्वं लक्षणमुक्त्वा पुङ्ग-
वानां गोत्वं नेति ब्रुवतः किमुत्तरमिति भावः । तर्हि अव्याप्तयादि -
रहितं तल्लक्षणं किमित्यत्राह – वक्ष्यते चेति । ननु भवदभिमत (भव -
दुक्त)स्यापि लक्षणस्य राजसाहङ्कारोपात्त (तेषु) कर्मेन्द्रियेष्वव्याप्तिरित्याह-
नच कर्मेन्द्रियाणामिति । तन्त्रान्तरं — शैव (मतशास्त्रं) मतम् । नन्वेवं
तर्हि राजसाहङ्कारस्या (स्येन्द्रिया) नारम्भकत्वे प्रकृतित्वमेव न स्यात् ।
नचेष्टापत्तिः; षोडश विकारा इति परिगणनविरोधात् । नच प्रकृतित्व -
मवस्थाश्रयत्वमात्रं विवक्षितम् ; आत्मादेरपि संयोगादिरूपविकारवत्त्वेन
'अष्टौ प्रकृतयः' इति विभागविरोधात् । नापि द्रव्यान्तरप्रकृतित्वम् ;