2025-01-21 07:42:34 by ambuda-bot
This page has not been fully proofread.
448
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
कथं तर्हि दूरस्थं व्यवहितं वा न प्रकाशयति ? इत्थम् ;-
यथा अयस्कान्तादेरव्यवहितानतिविप्रकृष्टाकर्षकत्वं तथेह प्रका-
शकत्वम् । आभिमुख्यविशेष एव च बायैरुक्तस्संबन्धोऽस्तु ।
नन्वयस्कान्तादिवदाभिमुख्याभावेऽपि दर्पणादिभिः स्वमुखादेः
पचाद्भागवर्तिनां च दर्शनं कथं स्यात् ? भवतो वा कथम् ? चाक्षु-
पस्य तेजसः प्रतिलोमवृत्त्येति चेत्; सा कुड्यपाषाणादौ कथं न
जायते ? मणिसलिलदर्पणादिषु च कथं भवति ? अपर्यनुयोज्य-
तत्तद्वस्तुस्वभावविशेपादिति चेत्; अस्तु तर्हि स एव सन्निधिवि-
शेषसामर्थ्यादनाभिमुखवस्तुनि दर्शनस्य हेतुः; द्रव्यान्तरकल्पनाद्वरं
आनन्ददायिनी
भावः । दूरस्थादिप्रकाशनरूपातिप्रसङ्ग प्रतिबन्द्या परिहरति-इत्थमिति ।
अयस्कान्तादेस्संबन्धाभावेऽप्याकर्षे यथा नातिप्रसङ्गस्तथेहापीत्यर्थः ।
सम्बन्धेनैवातिप्रसङ्गः परिहरणीय इति यदि तदा सोऽप्यस्तीत्याह-
आभिमुख्यविशेष इति । ( ननु ) आभिमुख्यस्य ( स्याव्याप्तत्वत् ) न
संबन्धत्वमिति शङ्कते ---- नन्वयस्कान्तादिवदिति । अतिरिक्तेन्द्रियाभ्यु-
पगमवादिनोऽपि पाश्चात्येन चक्षुषस्संबन्धाभावात् कथं प्रकाश इति
चोद्यं समानमित्याह – भवतो वेति । दर्पणाद्यभिघाताच्चाक्षुषतेजसः प्रति-
लोमगतिर्भवतीति भावः । सेति — तैरपि प्रतिघातात् सा प्रतिलोम-
वृत्तिर्जायेताविशेषादिति भावः । परिहारमाशङ्कते — अपर्यनुयोज्येति ।
स एव–वस्तुस्वभाव एव । सन्निधिविशेषः - - दर्पणापेक्षयाभिमुख्यरूपः ।
ननु सामर्थ्यविशेषस्यापि कल्प्यत्वादिन्द्रियकल्पने कः प्रद्वेष इत्यत्राह -
द्रव्यान्तरकल्पनादिति । प्रतिफलनं दर्पण एव न कुड्यादाविति प्रति-
-