2025-01-21 07:42:34 by ambuda-bot
This page has not been fully proofread.
सरः ]
ज्ञानकर्मेन्द्रिययोः इन्द्रियत्वसाधकबाधकोपपत्तितीत्यं
447
सर्वार्थसिद्धिः
सिद्धसाध्यता । गोळकादिसद्भावेऽपि कदाचित् कार्यं न
जायते इत्यतिरिक्तसिद्धिरिति चेत्; समं वागादावपि । साम-
ग्रीवैकल्यात् प्रतिबन्धकाञ्च तत्र तथेति चेत्; चक्षुरादावपि
तथैव । सत्यप्यालोकादौ दोषादर्शनेऽपि गोळकादितः कदा-
चित् कार्यं न जायत इति चेत्; तदपि समम् । दोषस्सूक्ष्म-
स्तत्रेति चेत्; अत्राप्येवमस्तु ; ज्वालाघ्रातबीजन्यायेन विशे-
पादर्शने दोषस्य कल्प्यत्वात् । कल्पितेऽपि ह्यतीन्द्रिये तदानीं
तद्भशहेतु सूक्ष्मो दोषस्त्वयाप्यङ्गीकार्यः; अन्यथा कर्मेन्द्रिय-
क्लृप्तेरन्यथासिद्धिः । ननु च यदि चक्षुर्गोळक एवेन्द्रियं
आनन्ददायिनी
प्रकाशकसौरालोकादिभिः । ज्ञानेन्द्रियादिष्वन्यथासिद्ध्यभावं शङ्कते -
गोळकादीति । सममिति - मूकादीनां वागाद्यवयवसत्त्वेपि वचनादि-
क्रियाया अदर्शनात् परिहरणं सममित्यर्थः । न समतेति शङ्कते—
सामग्रीति । पुनर्ज्ञानेन्द्रियेषु वैषम्यमाशङ्कते – सत्यपीतिं । तदपीति–
दोषदर्शनमित्यर्थः । सूक्ष्मति - वागादौ दोषाभावोऽनुपलम्भमात्रान्न
वक्तुं शक्य इत्यर्थः । तदपि सममित्याह -- अत्रापीति । ज्वाला-
प्रातं ज्वालास्पृष्टम् । ननु अप्रत्यक्ष (अनुपलब्ध) प्रतिबन्धकल्प-
(नापक्षे) ने कल्प्यत्वाविशेषात् इन्द्रियक्लप्तिरेवास्तु इत्यत्राह — कल्पिते-
पीति । इन्द्रियकल्पना गुर्वीति भावः । अन्यथा - सूक्ष्मदोषस्या कल्पने l
ननु ज्ञानेन्द्रियानभ्युपगमे बाधकमस्ति न तु वागादीनामिति वैषम्यं शङ्कते—
नन्विति । गोळकमात्रस्य प्रकाशकत्वे तस्य दूरस्थविषयसम्बन्धाभावा-
दप्राप्तप्रकाशकत्वस्य वाच्यत्वेन अविशेषात् सर्वं सर्वदा प्रकाशयेदिति