2025-01-21 07:42:02 by ambuda-bot
This page has not been fully proofread.
सरः] लयश्रुतौ सप्तर्माबहुवचनोपपत्तिः भौतिकत्वोक्तिभावः न्यायातिदेशश्च 443
तत्वमुक्ताकलापः
चाक्षेषु च स्यात् । भूतैराप्यायितत्वात् क्वचिदुपच-
रिता भौतिकत्वोक्तिरेषां अन्नाप्तेजोमयत्वं श्रुति-
रपि हि मनः प्राणवाचामुवाच ॥ ३५ ॥
-
सर्वार्थसिद्धिः
इत्यारभ्य 'वाय्वात्मकं स्पर्शनमामनन्ति ' इत्युच्यते ' नभः श्रोत्रं
च तन्मयम्' इत्यादि च । अतः आहङ्कारिकत्ववाक्यं परम्परया
नेयमित्यत्राह — भूतैरिति । तदिदं व्यवस्थापितं वेदार्थसंग्रहे
'भूतैस्त्वाप्यायनं महाभारत उच्यते ' इति । इममेव न्यायं
'अन्नमयं हि सौम्य मनः आपोमयः प्राणः तेजोमयी वाक् '
इत्यादिष्वपि योजयितुमाह- अन्नाप्तेजोमयत्वमिति । न खलु हैतु-
कैरपि मनसः पार्थिवत्वं कल्प्यते वायुरूपस्य प्राणस्याप्यत्वम् !
आनन्ददायिनी
तदिदमिति । ननु महाभारतवचनादाप्यायनमस्तु उपबृंहणान्तराद्धौ-
तिकत्वं चास्त्विति चेत्; न; भौतिकत्वोपबृंहणस्य आहङ्कारिकत्व श्रुतेश्चा-
न्यतरस्यान्यथासिद्धौ वाच्यायां श्रुतेः प्राबल्यात् तदनुरोधादुपबृंहणं
व्यवस्थाप्यम् । किंच 'स्मृत्यनवकाशदेोषप्रसङ्ग इति चेन्नान्यस्सृत्यनवका-
शदोषप्रसङ्गात्' इत्यादिन्यायेनापि महाभारतवचनानुसारित्वमिति भावः ।
तत्र युक्तिमाह-न खल्विति । अन्यपरत्वस्य परेणावश्यं वाच्यत्वा-
दित्यर्थः । ननु 'अग्निर्वाग्भूत्वा' इत्यादिना उत्पत्तिः ; 'अग्निं वागप्येति