2025-01-21 07:42:02 by ambuda-bot
This page has not been fully proofread.
442
सर्वार्थसिद्धिसहिततत्वमुक्ताकलापः
[ जडद्रव्य
तत्वमुक्ताकलापः
नो चेत् पृथ्व्यादिवाक्येष्विव हि लयपदं व्योम्नि
सर्वार्थसिद्धिः
अतस्तन्मात्रान्तराणामपि तदवस्थापच्या तत्तदंशभेदविवक्षया
बहुवचनोपपत्तिः । अतः 'तन्मात्राणि भूतादौ लीयन्ते' इत्यपि
बहुवचनं गतार्थम् । अत्रैवं व्याख्यातं - इन्द्रियाप्यायकभूतांशानां
सर्वेषामाकाशतापन्नत्वादाकाशस्यैवेन्द्रियसंसर्ग आसीत् । पञ्चा -
नामपि भूतानां शब्दतन्मात्रापन्नत्वादिन्द्रियाणि शब्दतन्मात्रां-
शभेदेषु संसृष्टान्यासन् । एवमनभ्युपगमे वाक्यवैरूप्यदोपं
व्यनक्ति — नोचेदिति । ननु 'श्रोत्रं नभो घ्राणमुक्तं पृथिव्याः '
आनन्ददायिनी
-
शब्दतन्मात्रस्यैकत्वात् इत्यत आह--अत इति । लयक्रमतः तन्मा-
त्रान्तराणामपि शब्दतन्मात्रापत्तौ तत्तदंशभेदस्य तत्र सत्त्वादित्यर्थः ।
एवं प्रथमाबहुवचनमप्यनुपपन्नमित्याह – अतस्तन्मात्राणीति । अंश-
भेदविवक्षात इत्यर्थः । ननु आकाशस्य प्राक्तन संबन्धापेक्षया इन्द्रियै-
स्संबन्धान्तरं वाच्यं नचाप्यायक भूतानामाकाशतापत्तिमात्रेण तत्सं-
भवतीत्याह्--- अत्रैवमिति । भाष्ये इति शेषः । ' आप्यायकानां
भूतानामिन्द्रियैस्संबन्धविशेषोऽस्ति । इन्द्रियसंबन्धविशेषवतां भूतानामा-
काशतापन्नत्वे तत्र तत्संबन्धोऽप्याकाशे पर्यवसितः । तथा तत्संबन्धा-
पन्नस्यैवाकाशस्य तन्मात्रतापन्नत्वे तस्संबन्धाश्रयतन्मात्रसं(तत्सं)बन्ध
इन्द्रियाणामासीदित्यर्थः ' इति व्याख्यातमित्यर्थः । यद्वा उक्तार्थे अभि-
युक्तसंमतिमाह— अत्रैवमिति । आहङ्कारिकत्वेऽप्युपबृंहणविरोधमाशङ्कय
परिहरति ननु श्रोत्रं नभ इति । परिहारप्रकारमाह