This page has not been fully proofread.

सरः] इन्द्रियानुमानानां श्रौताहङ्कारिकत्वाबाधकता लयश्रुत्यविरोधश्च
 
किंतु प्रवेशं
 
तत्वमक्ताकलापः
 
सर्वार्थसिद्धिः
 
441
 
पर्यायेष्वप्यनुषङ्गेण भाव्यं वैरूप्यायोगात् । इन्द्रियाणामाकाश-
प्रकृतित्वं च सर्वोपबृंहणविरुद्धम् । अस्यां चोपनिषदि भूतादेरा-
काशः आकाशाद्वायुः इत्यादिसृष्टिक्रम उक्तः; षोडशविकारा' इति
श्रुतेश्वासामञ्जस्यं स्यात् । अतो वरमधिकरणत्वोक्तिमात्रानुसारा-
दाकाशस्येन्द्रियेषु तेषां च आकाशारम्भकतन्मात्रेषु प्रवेशविशेषा-
भिधानं इत्यभिप्रायेणाह — किंतु प्रवेशमिति । अयं भावः-
यद्यप्याकाशस्येन्द्रियैः प्रागपि संबन्धः ; तथाऽपि तत्तदिन्द्रिया-
प्यायकभूतांशानां स्वकारणलयक्रमात् आकाशदशापन्नत्वात्
तदानीमिन्द्रियेष्वाकाशस्यैव संसर्गः अनन्तरमाकाशे च शब्द-
तन्मात्रावस्थे तानीन्द्रियाणि शब्दतन्मात्र संसर्गीणि भवन्ति ।
आनन्ददायिनी
 
-
 
वैरूप्यं च सोढव्यमिति चेत्; अनुषङ्गं विनाप्यर्थबोधकत्वेन वाक्यपरि-
समाप्तौ वैरूप्यमभ्युपगम्य तत्कल्पनायोगात् । सोपबृंहणैतदुपनिषद्वि-
रोधाच्चानुषङ्गो न युक्त इत्याह--- इन्द्रियाणामिति । भूतादिः --- ताम-
साहङ्कारः । षोडशेति — विकाराणां न्यूनत्वप्रसङ्गादिति भावः ।
नन्वनुषङ्गाभावे कथं वाक्यपरिसमाप्तिरित्यत्राह - अतो वरमिति ।
नन्वेवमपि प्रवेशनक्रियाया अश्रवणात् तदध्याहारादनुषङ्ग एव
वरमित्यत्राह - अयं भाव इति । संसर्ग एव प्रवेशः स च सप्तम्यर्थ
इति नाध्याहार इति भावः । ननु सर्वेषामाप्यायकभूतानां तत्तन्मात्राणां
च लयक्रमेण आकाशदशापत्तिः तस्यापि लयक्रमाच्छब्द तन्मात्रतापत्ति-
रिति तन्मात्रसंसर्गे इन्द्रियाणि तन्मात्रेष्विति सप्तमीबहुवचनमनुपपन्नं ;
 
;