2025-01-21 07:41:55 by ambuda-bot
This page has not been fully proofread.
440
सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
अक्षाहङ्कारिकत्वं श्रुतिपथनिपुणैघोषितं नैव वा-
ध्यम् ॥ ३४ ॥
तन्मात्रेष्विन्द्रियाणां श्रुतिरिह न लयं वक्ति
सर्वार्थसिद्धिः
नुमानानामागमवाधमभिप्रेत्याह--अक्षाहङ्कारिकत्वमिति । श्रुति-
पथनिपुणैः – मनुपराशरपाराशर्यादिभिः । घोषितं - बहुषु प्रदेशेषु
स्पष्टोक्तम् । नैव बाध्यं — अशक्तैरनुमानैः अन्यपरैश्च वाक्यैरिति
शेषः ॥ ३४ ॥
ननु इन्द्रियाणि तन्मात्रेष्विति श्रुत्या भौतिकत्वममीषां
भातीत्यत्राह - तन्मात्रेष्विति । पूर्वापरपर्यायेष्विव आकाशे-
न्द्रियपर्याययोः लयो न पठ्यते । नचात्रानुपङ्गः; सति गत्यन्तरेऽ-
ध्याहारवत्तस्याप्ययोगात् । अन्यथा द्वितीयादिषु च सर्वेषु
आनन्ददायिनी
इत्यर्थः । अन्यपरैरिति — भूताप्यायितत्वमात्र परैरित्यर्थः ॥ ३४ ॥
आक्षेपिकीं संगतिमाह -- नन्विति । तन्मात्रेष्विति श्रुत्येति ।
कार्यस्योपादान एव लयंनियमादिति भावः - पूर्वापरेति । ' पृथिव्यप्सु
लीयते' इत्यारभ्य ' वायुराकाशे प्रलीयते ' इति पठित्वा अनन्तरं आकाश
इन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते इति पठ्यते ;
सर्वत्र लयपदं पठित्वा मध्ययोराकाशेन्द्रियपर्याययोयपदं न पठ्यत
इत्यर्थः । अन्यथेति --- अत्र प्रकरणे अनुषङ्गस्याभिप्रेतत्वे इत्यर्थः ।
ननु श्रूयमाणस्थले अनुषङ्गासंभावात् यत्र न श्रूयते तत्रानुषङ्गोऽस्तु