This page has not been fully proofread.

तत्वमुक्ताकलापः
 
4
 
लक्ष्मीनेत्रोत्पलश्री सततपरिचयादेष संवर्धमानो
नाभीनाळीकरिङ्गन्मधुकरपटलीदत्तहस्तावलम्बः ।
अस्माकं संपदोधानविरलतुळसीदामसञ्जात भूमा
कालिन्दीकान्तिहारी कलयतु वपुषः काळिमा कैटभारेः ॥
 
" नानासिद्धान्तनीतिश्रमावेमलधियोऽनन्तसूरेस्तनूजो
वैश्वामित्रस्य पौत्रो विततमखविधेः पुण्डरीकाक्षसूरेः ।
श्रुत्वा रामानुजार्यात्सदसदपि ततस्तत्वमुक्ताकलापं
व्यातानीद्वेङ्कटेशो वरदगुरुकृपालम्भितोद्दामभूमा ॥
 
7 प्रज्ञासूच्यानुविद्धः क्षतिमनधिगतः कर्कशात्तर्कशाणात्
शुद्धो नानापरीक्षास्वशिथिलविहिते मानसूत्रे निबद्धः ।
आतन्वानः प्रकाशं बहुमुखमखिलत्रा सवै धुर्यधुर्यः
 
8
 
धार्यो हेतुर्जयादेः स्वहृदि सहृदयैस्तत्वमुक्ताकलापः ॥
 
" शिष्टा " जीवेशतत्वप्रमितियुत "परोपासना मुक्तिहेतुः
शक्य" स्तत्तत्प्रकारावगतिविरहिभिर्नैव याथात्म्यबोधः ।
ते ते चार्था विदध्युः कुमतिविरचितास्तत्वबोधोपरोधं
तस्मान्निर्धूतसर्वप्रतिमतविमतिं साधये सर्वमर्थम् ॥
 
आवापोद्वापत स्युः कतिकति कविधीचित्रवत्तत्तदर्थे-
ष्वानन्त्यात् 15 अस्तिनास्त्योरनवधिकुहनायुक्तिकान्ताः कृतान्ताः ।
 
SARVARTHA.
 
xlix
 
d