2025-01-21 07:41:56 by ambuda-bot
This page has not been fully proofread.
सरः ] पूर्वोक्तव्यभिचारस्थापनं श्रोत्र भौतिकत्वनिरासः योगसंमतिः प्रत्यनु मानानिच 439
सर्वार्थसिद्धिः
कान्तिकम् । किंचात्र लोकसिद्धनयन बुद्बुदादिपक्षीकारे रूपादि-
विशेषैस्तेषां पार्थिवत्वसिद्धेः कालात्ययापदेशः । अनुमानतस्त्वि-
न्द्रियसिद्धिरशक्येति वक्ष्यते । सामान्यतो दृष्टादधिष्ठानातिरिक्ते-
न्द्रियसिद्धावपि तदाहङ्कारिकत्वं श्रौतमवाध्यम् । 'इन्द्रियाण्य-
हङ्कारविशेषाः' इति हैरण्यगर्भोक्तिरपि तदाहङ्कारिकत्वानुगुणा ।
अतः श्रुतिसिद्धपक्षीकारेऽपि बाध एव । प्रतिप्रयोगाश्च - बाह्ये-
न्द्रियाण्य भौतिकानि इन्द्रियत्वात् मनोवत् । प्रत्येक पक्षीकारेण
वा चक्षुरतैजसमित्यादि । तावेव हेतुदृष्टान्तौ । परस्परं वा
घ्राणादयो दृष्टान्ताः । विपक्षे बाधकसदसद्भावश्च समः ;
यत्किञ्चिद्दृष्टान्तमात्रानुसारेण प्रसङ्गस्य सुलभत्वादिति । परोक्ता-
आनन्ददायिनी
क्षसिद्धस्य पक्षत्वमुतानुमानसिद्धस्य आहोस्वित् श्रुतिसिद्धस्य इति
विकल्पमभिप्रेत्य आद्ये दोषमाह – लोकसिद्धेति । द्वितीय आह-
अनुमानत इति । वक्ष्यते — इन्द्रियाणामेकादशत्वसाधनावसर इत्यर्थः ।
सामान्यत इति — रूपादिज्ञानं पक्षीकृत्य क्रिया क ( का ) रणजन्या इति
सामान्यतो दृष्टादित्यर्थः । अपिशब्देनाधिष्ठानातिरिक्ततया सिद्धिर्न
शक्येति सूच्यते । तदिति — तथाच आहङ्कारिकत्व (विरोधी न भवती-
त्यर्थः) श्रुत्या तैजसत्वाद्यनुमानबाध इति भावः । योगशास्त्रे अहङ्कार-
त्वमिन्द्रियाणामुक्तमिति तदाहङ्कारिकत्वकथनं तेन विरुद्धमित्यत आह-
इन्द्रियाणीति । कार्यकारणयोस्तन्तवः पट इत्यभेदव्यपदेशदर्शनादा-
हङ्कारिकत्वविरोधी तद्व्यपदेशो न भवतीत्यर्थः । तृतीयं दूषयति — अत
इति । धर्मिग्राहकमानबाध इत्यर्थः । परस्परमिति – चक्षुः पक्षकानुमाने
घ्राणं प्राणपक्ष के चक्षुरादिक्रमेण परस्परपक्षकानुमाने परस्परं दृष्टान्ता