2025-01-21 07:41:36 by ambuda-bot
This page has not been fully proofread.
438
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
तैजसत्वानभ्युपगमात् । दन्तान्तस्तोय दृष्टान्तश्चायुक्तः विषयसं-
स्कारकस्य व्यञ्जकत्वायोगात् । न हि ग्रस्यमानं किञ्चिदसं
स्कृत्य दन्तान्तस्तोयस्योपकारकत्वम् । तावता च रसव्यञ्जकत्वे
।
रसगन्धाद्युद्भवहेतोरग्नचादेरपि किं तन्न स्यात् ? वायुश्च वेगे -
नाभिन्नन् सूक्ष्मान् सलिलकणानन्तरशरीरं प्रवेशयति । शैत्यं
तु तेषां त्वगिन्द्रियप्रवेशवैपम्याद्विशदमनुभूयते । तावता स्पर्श-
व्यञ्जकत्वे गन्धोपहारकस्य तस्य तद्वयञ्जकत्वमपि किं नेष्यते ?
तथाच घ्राणपार्थिवत्वानुमानं दुस्स्थमिति । एवं चतुर्णां
भौतिकत्वासिद्धौ तद्दृष्टान्तेन श्रोत्र भौतिकत्वानुमानान्यपि छिन्न-
मूलानि । आकाश इन्द्रियारम्भक इति च अयुक्तं ; श्रोत्रस्य
त्वन्मते तदारब्धत्वाभावात् । भूतत्वादिति च घटादिभिरनै-
आनन्ददायिनी
भावः
विषयसंस्कारकः—विषये (द्रव्ये) ग्रस्यमाने रसाद्युत्पादकः । विषयसंस्का-
रकत्वमुपपादयति— नहीति । ननु रसाभिव्यञ्जकत्वं रसाभिव्यक्तिप्रयो-
जकत्वम् ; तच्च रसोत्पादोपलम्भजनकसाधारणमिति नासिद्धिरित्यत
आह— तावता चेति । तथाच पार्थिवत्वसाधक हेतोस्तत्र व्यभिचार इति
त्वचो वायवीयत्वसाधक हेतावपि दृष्टान्तवैषम्यमाह-
वायुश्चेति । उपलब्धि ( मात्र ) प्रयोजकत्व (मात्र )
विवक्षायां दोषमाह -
तावता स्पर्शव्यञ्जकत्वे इति । त ( ) स्य वायोस्तत्र पार्थिवत्वसाधक-
हेतोर्व्यभिचार इति भावः । श्रोत्रस्य भौतिकत्वसाधकानुमानानां व्याप्य-
त्वासिद्धिरूपं साधारणं दोषमाह – एवं चतुर्णामिति । आकाश
इन्द्रियारम्भकः इत्यनुमाने श्रोत्रस्य तन्मते नित्यतया बाधो व्यभि-
चारोऽपि दोष इत्याह- आकाश इति । किञ्च चक्षुराद्यनुमानेषु प्रत्य-