This page has not been fully proofread.

सरः]
 
पूर्वोक्तहेतोः द्वितीय विकल्पेऽसिद्धिः विकल्पान्तरे व्यभिचारश्च 437
 
सर्वार्थसिद्धिः
 
अञ्जनस्य शक्ये प्रतिबन्धनिवर्तकत्वमात्रमिति चेन्न ; अशक्ये गूढ -
निधिदर्शनादौ शक्त्याधानेन सहकारित्वदृष्टेः ।
 
शक्त्याधा-
यकं हि सहकारीति चेन्न ; दीपादावपि तथा क्लप्तिप्रसङ्गात् । सत्त-
यैव हेतुत्वं तत्र दृष्टमिति चेत्; अत्रापि तथास्तु अविशेषात् ।
येच तत्तदिन्द्रियदोषैरपि रूपादिधीरस्तीति मत्वा-
शरीरयोगे सत्येव साक्षात्प्रमितिसाधनम् ।
 
इति लक्षयन्ति; तन्मते
तन्मते तत्तद्दोषैरप्यनैकान्त्यम् । तेपां
 
आनन्ददायिनी
 
;
 
तृप्रमेययोर्न स्वरूपमात्र ग्रहसहकारित्वं; रसादिग्रहं प्रत्यपि सहकारित्वात् ।
रसादिग्रहासहकारित्वे सति रूपग्रह सहकारित्वस्य विवक्षितत्वात् ;
तथाच न व्यभिचार इति चेन्न दृष्टान्तासिद्धया तथा विव-
क्षाया असंभवात् । तेषामपि सन्निकर्षतया स्वनिष्ठस्पर्शादिव्यञ्ज-
कत्वादिति भावः । इदञ्च अवधारणाविवक्षायां । तद्विवक्षायां
त्वज्ञ्जनादिद्रव्यसंस्कारकद्रव्ये दोषविशेषे च व्यभिचारो बोध्यः ।
अञ्जनस्येति – तथाच उपलब्धिसाधकत्वाभावान्न व्यभिचार इति भावः ।
दीपादावपीति--तस्य शक्तयाधायकत्वेन सहकारित्वाभावप्रसङ्गादित्यर्थः ।
सत्तयैवेति-दीपादीनां चक्षुरादौ शक्तयाधायकता नास्ति (स्तीत्यर्थः । )
स्वरूपेण हेतुत्वादिति भावः । अत्रापीति — अञ्जनादावपि स्वरूपेण हेतु-
ताक्लृप्तिरस्तत्यिर्थः । येचेति — नयनगतपित्तद्रव्येण शङ्ख पित्तरूपस्यो -
पलम्भात् रसनगतदोषेण क्षीरादौ तिक्तताया उपलम्भात् तद्व्यावर्त-
नाय इन्द्रियलक्षणे प्रमितिविशेषणं तार्किकर (क्षणकृदादयः प्रति-
क्षिपन्ति ) क्षादावुक्तमित्यर्थः । अनैकान्त्यमेवोपपादयति — तेषामिति ।