2025-01-21 07:41:34 by ambuda-bot
This page has not been fully proofread.
436
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
तत्वमुक्ताकलापः
भवति गमकतामात्रमप्यञ्जनादौ
सर्वार्थसिद्धिः
करणभूतेन्द्रियापेक्षया तेषामेव दीपादिवत् सहकारित्वमनुप-
पन्नमित्यर्थः । दीपादीन् प्रति सहकारित्वान्नासिद्धिरिति
चेत्; तर्हि प्रमातृप्रमेययोरपि तथात्वात्तत्सिद्धिस्स्यात् । तयो-
स्सतोरपि कदाचित्कार्यं नास्तीति चेत ; तावता करणत्वं
माभूत्; तत्सहकारित्वं तु सिद्धमेव । दीपे च सति भाव
एवेति नियमो नास्ति । संप्रयोगविशेषसाहित्यात्स्यादिति चेत्;
तर्हि तयोरपि ततस्स्यादेवेत्यनैकान्त्यम् । एतेन करणत्वादिवि-
कल्पानादरेण रूपादिबोधकद्रव्यत्वमात्रं हेतुरित्यपि निरस्तम् ।
तद्व्यनक्ति - भवतीत्यादिना । आदिशब्देन प्रमात्रादिसंग्रहः ।
आनन्ददायिनी
मित्यर्थः । सहकारित्वं किं करणं प्रति ? उत कारणमात्रं प्रति ?
इति विकल्प्य आद्ये आह— करणेति । तेषामेव – इन्द्रियाणामेव ।
अनुपपन्नमिति –– सहकारिसहकारिमतोर्भेदाधीनत्वादिति भावः । द्विती-
--
-
यमाशङ्कय दूषयति — दीपादीनित्यादिना ! तथात्वात् — सहकारि-
त्वात् । तत्सिद्धिस्स्यात्— तैजसत्वसिद्धिस्स्यात् । तदभावात्तत्र व्यभि-
चार(इति भावः)स्स्यादित्यर्थः । ननु करणत्वमेव सहकारित्वेन विवक्षित -
मिति चेत् ; तत्राह- दीपे चेति । तथाच असाधारण्यं तदवस्थमिति भावः ।
तयोरपीति ---प्रमातृप्रमेययोरप्युक्तविधया नियमरूपकरणत्वसंभवेनानैका-
न्त्यमित्यर्थः । तृतीय आह— एतेनेति । आदिशब्देनेति ननु प्रमा