This page has not been fully proofread.

सरः] इन्द्रियभौतिकत्वं परोक्तहेतुस्वरूपविकल्पेन प्रथम साधारण्य दोषौद्भावनम् 435
 
तत्वमुक्ताकलापः
 
तत्साहाय्यं त्वसिद्धं ;
 
सर्वार्थसिद्धिः
 
उद्विग्रो न्धकारेण कश्विदेवं ब्रवीत्यपि ।
किं चक्षुषा ममैतेन ? दृष्टं दीपेन यन्मया ! ॥
इति दीपादिषु साधकतमत्वं कश्चिद्रयात् । अतस्सपक्षवृत्तेर्हेतोः
कथमसाधारणत्वम् ! इत्थं ; आलोकेन विनाऽपि जन्तुभेदेषु
चक्षुषो रूपादिग्राहकत्वं सिद्धम् । अन्धकारे च मनुष्यादीनां
तत्वतोऽन्यथा वा । अतः ईदृशं प्राधान्यमपेक्ष्य इन्द्रियेषु
करणत्वं दीपादिषु सहकारित्वं च प्रख्यातमनुरुध्य विकल्प-
प्रवृत्तेरविरोधः । कोट्यन्तरं दूषयति - तत्साहाय्यं त्वसिद्धमिति ।
आनन्ददायिनी
 
- - -
 
अन्धकारेणोद्विग्नः - भीतः । साधकतमत्वं करणत्वम् । कश्चित् इत्य-
न लौकिकव्यवहार विरहस्सूच्यते ) रापरिज्ञानादिरुच्यते । सपक्षवृत्ते-
रिति-- दीपादीनां सपक्षत्वमिति भावः । किं दीपादीनां रूपादि-
साक्षात्कारमात्रे करणत्वम् ! उत मनुष्यकर्तृकरूपादिसाक्षात्कारे इति
विकल्पमभिप्रेत्य आद्ये दूषणमाह - आलोकेन विनापीति । द्वितीये
दूषणमाह – अन्धकारे चेति । ननु तर्हि व्याभिचाराद्दीपादेस्सहकारि-
तापि न स्यात् । यदि तद्विशेषे विशदज्ञानादौ सहकारिता ;
तत्र करणताऽप्यस्त्वित्यत्राह — ईदृशेति । रूपोपलब्धिमात्रे चक्षुषो
यस्मिन् सति भवत्येवेति रूपं प्राधान्यमभिप्रेत्येत्यर्थः । न च विशद-
ज्ञानं प्रत्यपि करणत्वम्; अन्यत्र क्लृप्तचक्षुष एव करणस्य सत्त्वेन
सहकारितामात्रत्वात् ? अन्यथा गौरवात् । कोट्यन्तरमिति-सहकारित्व-
 
1
 
28*