2025-01-21 07:41:19 by ambuda-bot
This page has not been fully proofread.
434
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
तत्वमुक्ताकलापः
यदि करणतया स्यादसाधारणत्वम् ।
सर्वार्थसिद्धिः
[जडद्रव्य
वा; वहिरिन्द्रियव्यवस्थापकस्वादित्येव हेतुः । तथा श्रोत्रं
भौतिकं वाह्येन्द्रियत्वात् चक्षुरादिवत् । आकाश इन्द्रियारम्भको
भूतत्वात् भूतान्तरवत् इति । शब्दोपलब्धिर्वा भूतेन्द्रियकर-
णिका वाह्येन्द्रियव्यवस्थापकोपलब्धित्वात् रूपोपलब्धिवत् ।
तत्राद्येषु चतुर्ष्वनुमानेषु हेतुविकल्पम (नूद्य)भिप्रेत्य दूपयति-
यदि करणतयेत्यादिभिः । यस्मिन् सति कार्यं भवत्येव तत्करणम् ।
तच्च सन्निकर्षविशेषविशिष्टतयेन्द्रियाणाम् । ननु –
-
आनन्ददायिनी
यानुमापकत्वं चेत् द्रव्यत्वादौ व्यभिचारः' इत्यपास्तम् । गुणत्वादिति
शब्दत्वादौ व्यभिचारवारणाय । असिद्धिवारणाय साक्षात्कारविषयेति ।
सुखादौ व्यभिचारवारणाय बहिरिन्द्रियेति । द्रव्यत्वादौ व्यभिचारवारणाय
इन्द्रियपञ्चकेति विशेषणमिति ध्येयम् । बहिरिन्द्रियव्यवस्थापकत्वा-
दिति – पूर्ववदेवार्थः । शब्दत्वादौ साध्यसत्त्वात् न व्यभिचारइति
गुणत्वस्यानुपादानम् । शब्दोपलब्धिरिति — उपलब्धित्वं शाब्दोपलब्धौ
व्यभिचारीतीन्द्रियेति विशेषणम् । सुखाद्युपलब्धौ व्यभिचारवारणाय
बाह्येति विशेषणम् । हेतुविकल्पमभिप्रेत्येति — अभिव्यञ्जकादित्यत्र
हेतावाभिव्यञ्जकत्वं किं क (का) रणत्वं ? यद्वा क (का) रणसहकारित्वं ?
अथवा बोधकत्वमात्रमिति विकल्पमभिप्रेत्येत्यर्थः । तच्चेति- इन्द्रिया
णामेव तथात्वात् पक्षमात्रवृत्तित्वेन असाधारण्यमिति (त्यर्थः) भावः ।