This page has not been fully proofread.

सरः]
 
इन्द्रियभौतिकत्वे परोक्त नुमानानुवादः
 
433
 
तत्वमुक्ताकलापः
 
साध्ये रूपादिग्राहकत्वं
 
सर्वार्थसिद्धिः
 
ग्राहकत्वेन विशेषितमित्यर्थः । चक्षुस्तैजसं रसाद्यग्राहकत्वे सति
रूपग्राहकद्रव्यत्वात् दीपवत् इति । एवं त्वगिन्द्रियं वायवीयं
स्पर्शादिषु मध्ये स्पर्शस्यैव ग्राहकत्वात् अङ्गसङ्गिसलिलशैत्याभि-
व्यञ्जकवायुवत् । रसनस्याप्यत्वे रसस्यैवेति दन्तान्तस्तोयदृष्टान्तः ।
घ्राणस्य पार्थिवत्वे गन्धस्यैवेति कुङ्कुमगन्धाभिव्यञ्जकनिम्बत्व-
गादि निदर्शनम् । श्रोत्रस्य तु नभस्त्वे श्रोत्रं गुणावान्तरजात्या
स्वगुणसजातीयगुणग्राहकं वाह्येन्द्रियत्वात् चक्षुरादिवत् इति ।
शब्दो गुणावान्तरजात्या स्वसजातीयगुणवतेन्द्रियेण गृह्यते बहिरि-
न्द्रियव्यवस्थापकगुणत्वाद्रूपादिवत् । शब्दो भूतेन्द्रियग्राह्य इति
आनन्ददायिनी
 
व्यभिचारवारणाय रसाद्यग्राहकत्व इति । परमाणौ व्यभिचारवार-
णाय रूपग्राहकत्वादिति । सन्निकर्षादौ व्यभिचारवारणाय द्रव्यत्वा
दिति । घटादिग्राहकतयाऽसिद्धिप्रसङ्गादत्रापि रूपादिष्विति बोध्यम् ।
तदर्थश्च -- रूपादिषु पञ्चसु मध्ये इति । अत्र ग्राहकत्वं लौकिक-
प्रत्यक्षजनकत्वं; तेनोपनयादिवशाद्र (दिना र ) सादिग्राहकतया नासिद्धिः ।
एवमुत्तरानुमानेष्वपि द्रष्टव्यम् । रसस्यैवेति — रसस्यैव ग्राहकत्वं
हेतुरित्यर्थः । एवं गन्धस्यैवेत्यादावपि बोध्यम् । निदर्शनं दृष्टान्तः ।
बहिरिन्द्रियेति-— इन्द्रियपञ्चके स्वग्राह केन्द्रियेतरेन्द्रियनिरूपितस्वग्राह के-
न्द्रियनिष्ठ भेदानुमितिहेतुसाक्षात्कारविषयगुणत्वादित्यर्थः । तेन ' इन्द्रिय-
व्यवस्थापकत्वं इन्द्रियसाधकत्वं; न च शब्दजन्यत्वामन्द्रियस्य ! इन्द्रि-
 
SARVARTHA.
 
28