This page has not been fully proofread.

432
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ता कलांप
 
[ जडद्रव्य
 
तत्वमुक्ताकलापः
 
अन्यथाऽतिप्रसङ्गात् ॥ ३३ ॥
 
नेत्रादेदपिकादेखि नियमयुतं तैजसत्वादि-
 
.
 
सर्वार्थसिद्धिः
 
व्यक्ति — अन्यथेति । न हि धूमादिना यदाकदाचिद्भवि-
तव्यमित्यस्य कादाचित्कत्वं नियम्यते । तथा सति गर्दभादर-
नन्तरं तदुपलब्धिर्वा सामग्रयनन्तरमनुपलब्धिर्वा स्यादिति ॥
इति त्रिगुणपरीक्षायां कार्यकारणभावभङ्गनिरासः.
 
प्रकृतस्य प्रकृत्यादिकारणवादस्य प्रतिपक्षा निरस्ताः ।
तत्र देहादिवदिन्द्रियाणामपि भौतिकत्वं वदतः प्रतिवक्ति-
नेत्रदेरिति । नियमयुतं -- सावधारणं; रूपादिषु मध्ये रसाद्य-
 
आनन्ददायिनी
 
नहीति - (धूमादिना ) यदाकदाचिद्भवितव्यमित्येतावता नियतकारणान-
ङ्गीकारे तस्मादनन्तरमनेन भाव्यमिति कादाचित्कत्वमुत्पत्ति (त्तिर्न)न
नियन्तुं शक्यमित्यर्थः ॥
 
इति त्रिगुणपरीक्षायां कार्यकारणभावभङ्गनिरासः
 
अवसरसंगतिमाह — प्रकृत्येति । रसाद्यग्राहकत्व इति - आत्मनि
 
-