This page has not been fully proofread.

सरः ] मुखभेदनिबन्धन नित्यनिदर्शनेन च निर्हेतुकत्वत्वोद्य परिहार :
 
तत्वमुक्ताकलापः
 
431
 
भवेन्नित्यता तुच्छता वा? कादाचित्कस्वभावाद्यदि
 
न नियमनातू
 
सर्वार्थसिद्धिः
 
द्वितीये कथमतत्स्वभावः कारणसहस्रेणापि तत्स्वभावतां नेतुं
शक्यः ? स्वभावस्य च हेतुमचे निर्हेतुकमिति किञ्चिन्न स्यात् ।
अतो नित्यस्वभाववन्नियतकालस्वभावता स्यादिति शङ्कते -
कादाचित्केति । कादाचित्कस्वभावत्वेऽपि हेत्वधीनतां तत एव
नित्यस्वभाववैषम्यं चाभिप्रेत्याह-न नियमनादिति । न हि
यतः कुतश्चिदनन्तरमनेन भवितव्यमिति कादाचित्कत्वं ! अनि-
यमादृष्टेः ; अस्मादनन्तरमेवेदमिति व्यवस्थादृष्टेरित्यर्थः । उक्त-
नियमानभ्युपगमे सर्वत्र सर्वदा सर्वतः कार्यं स्यादिति तर्कबाधं
 
आनन्ददायिनी
 
प्रसङ्गात् ; नचेष्टापत्तिः भवद्भिर्नित्यानित्यव्यवस्थाकरणादिति भावः ।
स्वभावत्वेऽपि कार्यस्य हेत्वधनता दर्शनबलादभ्युपेयते न तु नित्यस्य ;
तदभावात् ; अन्यथा कार्यस्य धूमादेर्यतः कुतश्चिगर्दभादिजातीयादन-
न्तरमप्युपलब्धिरुत्पत्तिस्स्यात् । वह्नह्यादिघटितसामग्रयनन्तरमपि कदा-
चिदनुपब्धिस्स्यात् ; नचेष्टापत्तिः; धूमादेर्वयाद्यनन्तरमेव नियतोपलम्भ-
विरोधात् । तदर्थिनो नियमेन तत्रैव प्रवृत्तेः । स्वक्रियाव्याघातादेरपि
प्रसङ्गान्नियतावधिकत्वमङ्गीकरणीयमित्याह --स्वभावत्वेऽपि इत्यादिना ।