2025-01-21 07:40:54 by ambuda-bot
This page has not been fully proofread.
430
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
वोऽपि कुर्यात् । कार्यं निर्हेतुकं चेत् कथमिव न
सर्वार्थसिद्धिः
नैरपेक्ष्यं स्यादित्यत्राह - कार्यं निर्हेतुकं चेदिति । विषमं निदर्शन-
मित्याकृतम् । तदेवानिष्टप्रसङ्गेन व्यनक्ति-कथमिति । निरवधित्वे
गत्यन्तरं न भवतीति भाव: । कार्यस्य नित्यत्वं सतोsसतो
वेति विकल्पे पूर्वत्र नित्यता अन्यत्र तुच्छता स्यादिति विभा-
ज्यम् । पूर्वावधिवदुत्तरावधेरप्य सत्कल्पत्वान्नित्यत्वम् । न हिं
इतः परं न भवितव्यमनेनेत्यपि नियमोऽस्ति । ननु कादाचित्कत्वं
स्वभावो न वा ? आद्ये नित्यस्वभाववन्निरपेक्ष एव स्यात् ।
आनन्ददायिनी
नित्यस्वभावस्यापि तत्सापेक्षता स्यादिति भावः । तदेवेति निदर्शन-
वैषम्यमेवेत्यर्थः । कार्यस्य नित्यत्वं विभाज्यमित्यन्वयः । विभाज्यं—
विवेचनीयम् । नन्वेतावता पूर्वावधिराहित्यमस्तु ; उत्तरावधिवैधुर्यरूप
नित्यत्वं कुत इत्यत्राह - पूर्वावधिवदिति । असत्कल्पत्वमविरोधित्व-
मित्यर्थः । असत्कल्पत्वमेवोपपादयति--नहीति । उत्तरावधित्वाभावे
सर्वस्याप्युत्तरावधिवैधुर्ये (ण)तदनन्तरमित्यभावादित्यर्थः । यद्वा ननु
ध्वंस उत्तरावधिरस्त्वित्यत्राह न हीति । ध्वंसस्याप्युक्तरीत्या उत्तरावधि-
वैधुर्येणानादित्वात्सर्वस्याप्युत्तरावधित्वानुपपत्तेरित्यर्थः । नित्यस्वभावव-
दिति -- पूर्वत्र स्वभावत्वाविशेषादहेतुकत्वशङ्का ; संप्रति स्वभावत्वव्या-
घाताधीनेति वैषम्यम् । स्व (स्व) भावस्य चेति — सर्वस्यापि सहेतुकत्व -