This page has not been fully proofread.

भूमि का
 
इदमिदानीं दर्शनपरिश्रमकृतादरेषु निवेदयामः ; यदुत सव्याख्यं
सटिप्पणं च किमपि दर्शनग्रन्थरत्नं मुद्रणेन प्रकाशयाम इति ॥
 
तत्र मूलं संग्धरावृत्तगुम्भितं ५०० पद्यात्मकं जडजीवनायक-
बुद्ध्यद्रव्यसरात्मकैः पञ्चभिर्महाप्रकरणैः प्रविभक्तशरीरं तत्वमुक्ताकलाप-
नाम्ना प्रथते ॥
 
:
 
तद्व्याख्या च सर्वार्थसिद्धिनाम्नी तत्तन्महाप्रकरणानुगतसुसङ्गत-
निखिलावान्तरप्रकरणा अवश्यापेक्षितनातिसंक्षेपनिरूपणा मूलकृतैव
दयालुना प्रणायि ।
 
सर्वार्थसिद्धेर्व्याख्या च प्रायः प्रतिविषयावतरणकृतक्षणा तत्तद्वा-
द्यन्तरवचोऽनुषङ्गप्रदर्शनकृतसुबहूपकरणा आनन्ददायिनीत्यन्वर्थं प्रथते ॥
मूलसर्वार्थसिद्धयोष्टिप्पणं तु भावप्रकाशनामकम् ॥
 
तत्र तत्वमुक्ताकलापसर्वार्थसिद्धयोः प्रणेता श्रीमान्निखिल
कवितार्किकचक्रचूडामणिःवैदुष्यवैराग्यप्रमुखसद्गुणगणनिधिः निगमान्ता-
 
चार्यापरनामा श्रीमद्वेङ्कटनाथदेशिकः ॥
 
आनन्ददायिन्यास्तु
 
श्रीमन्निगमान्त गुरुवर चरणभक्तयेकधनस्य
 
दोड्डयाचार्यापरनामधेयस्य अनेकप्रबन्धनिर्मातुः रामानुजाचार्यस्य विद्या-
वंशजः नृसिंहदेवः ॥
 
टिप्पणस्य तु इदानीं महीशूरपुरीमध्यविद्योतमानपरकालास्थान-
मलङ्कुर्वाणाः श्रीलक्ष्मीहयग्रीवदिव्यपादुकासेवक श्रीमदभिनव रङ्गनाथ-
ब्रह्मतन्त्रपरकालमहादेशिकाः ॥
 
८*