2025-01-21 07:40:43 by ambuda-bot
This page has not been fully proofread.
428
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
परिवेषादिदृष्टान्तेन नान्यत्र हेत्वभावश्शक्योऽनुमातुम् । अनिश्चित-
साध्यस्य दृष्टान्तत्वायोगात् । निश्चितसाध्यविपर्ययस्य पक्षत्वाद्य-
ति(क्षत्वाती) पातात् । निश्चितनिदर्शनादनिश्चितानुमानं युक्तमेव । न
चत्वद्विवादमात्रेण वटादिषु सर्वलोक ( संमतः) सिद्ध: कार्यकारण-
भावस्संदिह्यते । एतेन 'अहेतुतो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्श-
नात्' इत्यादि च प्रत्युक्तम् । अस्तु हेतुनिरपेक्षो नियतकालः प्राग-
भाव एव कार्यस्य पूर्वावधिः; स हि स्वभावविरुद्धतया कार्य-
कालमन शुवानस्तत्पूर्व एवेति सिद्धं, अतः किमन्यैरित्यत्राह —
आनन्ददायिनी
विपरिवर्तप्रसङ्ग परिहरति- अनिश्चितेति । निश्चितसाध्यविपर्ययस्येति-
ननु घटादावपि मृदादेर्यदृच्छा सिद्धत्वमुक्तमिति चेत्; मैवम् ;
परिवेषादौ कारणाभावनिश्चये हि तद्व्याप्तया घटादावपि मृदादेर्यदृच्छा-
सिद्धता । परिवेषादौ संदेहेन तद्बलाद्यदृच्छासिद्धत्वकल्पनायोगात् ।
तथाच घटादौ सकारणकत्वव्याप्तिग्रहस्संभवत्येव । परिवेषादौ तत्संदेहश्च
व्यभिचारसंदेहतया न प्रतिबन्धक इति साध्यविपर्ययनिश्चयात् न
पक्षत्वमिति भावः । विपरिवर्तप्रसङ्गं परिहरति — एतेनेति । निश्चितसा-
ध्यदृष्टान्तेन (तत्रापि) कारणविशेषानुमानसंभवादिति भावः । नन्वस्तु
पूर्वावध्यनुमानम् । तथाऽपि प्रागभाव एव पूर्वावधिः कारणमस्तु । न च
प्रागभावस्यपि यत्कारणं तदेव कारणम ( तदेवावधिर) स्तु, न तु प्रागभावः,
तद्धेतोरेवेति न्यायादिति वाच्यं तस्य हेतुनिरपेक्षत्वात् । तथाच भाव
रूपकारणनिरपेक्षत्वमेव निर्हेतुकत्वमित्या (मस्त्वित्या) शङ्कते - अस्तु हेतु-
निरपेक्ष इति । स्वभावविरुद्धतया - भावाभावयोः स्वरूपेण विरुद्धतया ।
तत्पूर्व एव - अतः किमन्यैरिति सिद्धमित्यत्रा (मित्याहेत्य)न्वयः
;
।